अर्जुन उवाच || 001
यत्रैषा काञ्चनी वेदी प्रदीप्ताग्निशिखोपमा | 001a
उच्छ्रिता काञ्चने दण्डे पताकाभिरलङ्कृता | 001c
तत्र मां वह भद्रं ते द्रोणानीकाय मारिष || 001e
अश्वाः शोणाः प्रकाशन्ते बृहन्तश्चारुवाहिनः | 002a
स्निग्धविद्रुमसङ्काशास्ताम्रास्याः प्रियदर्शनाः | 002c
युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः || 002e
दीर्घबाहुर्महातेजा बलरूपसमन्वितः | 003a
सर्वलोकेषु विख्यातो भारद्वाजः प्रतापवान् || 003c
बुद्ध्या तुल्यो ह्युशनसा बृहस्पतिसमो नये | 004a
वेदास्तथैव चत्वारो ब्रह्मचर्यं तथैव च || 004c
ससंहाराणि दिव्यानि सर्वाण्यस्त्राणि मारिष | 005a
धनुर्वेदश्च कार्त्स्न्येन यस्मिन्नित्यं प्रतिष्ठितः || 005c
क्षमा दमश्च सत्यं च आनृशंस्यमथार्जवम् | 006a
एते चान्ये च बहवो गुणा यस्मिन्द्विजोत्तमे || 006c
तेनाहं योद्धुमिच्छामि महाभागेन संयुगे | 007a
तस्मात्त्वं प्रापयाचार्यं क्षिप्रमुत्तर वाहय || 007c
वैशम्पायन उवाच || 008
अर्जुनेनैवमुक्तस्तु वैराटिर्हेमभूषितान् | 008a
चोदयामास तानश्वान्भारद्वाजरथं प्रति || 008c
तमापतन्तं वेगेन पाण्डवं रथिनां वरम् | 009a
द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तमिव द्विपम् || 009c
ततः प्राध्मापयच्छङ्खं भेरीशतनिनादितम् | 010a
प्रचुक्षुभे बलं सर्वमुद्धूत इव सागरः || 010c
अथ शोणान्सदश्वांस्तान्हंसवर्णैर्मनोजवैः | 011a
मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त रणे जनाः || 011c
तौ रथौ वीर्यसम्पन्नौ दृष्ट्वा सङ्ग्राममूर्धनि | 012a
आचार्यशिष्यावजितौ कृतविद्यौ मनस्विनौ || 012c
समाश्लिष्टौ तदान्योन्यं द्रोणपार्थौ महाबलौ | 013a
दृष्ट्वा प्राकम्पत मुहुर्भरतानां महद्बलम् || 013c
हर्षयुक्तस्तथा पार्थः प्रहसन्निव वीर्यवान् | 014a
रथं रथेन द्रोणस्य समासाद्य महारथः || 014c
अभिवाद्य महाबाहुः सान्त्वपूर्वमिदं वचः | 015a
उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा || 015c
उषिताः स्म वने वासं प्रतिकर्म चिकीर्षवः | 016a
कोपं नार्हसि नः कर्तुं सदा समरदुर्जय || 016c
अहं तु प्रहृते पूर्वं प्रहरिष्यामि तेऽनघ | 017a
इति मे वर्तते बुद्धिस्तद्भवान्कर्तुमर्हति || 017c
ततोऽस्मै प्राहिणोद्द्रोणः शरानधिकविंशतिम् | 018a
अप्राप्तांश्चैव तान्पार्थश्चिच्छेद कृतहस्तवत् || 018c
ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् | 019a
अवाकिरत्ततो द्रोणः शीघ्रमस्त्रं विदर्शयन् || 019c
एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः | 020a
समं विमुञ्चतोः सङ्ख्ये विशिखान्दीप्ततेजसः || 020c
तावुभौ ख्यातकर्माणावुभौ वायुसमौ जवे | 021a
उभौ दिव्यास्त्रविदुषावुभावुत्तमतेजसौ | 021c
क्षिपन्तौ शरजालानि मोहयामासतुर्नृपान् || 021e
व्यस्मयन्त ततो योधाः सर्वे तत्र समागताः | 022a
शरान्विसृजतोस्तूर्णं साधु साध्विति पूजयन् || 022c
द्रोणं हि समरे कोऽन्यो योद्धुमर्हति फल्गुनात् | 023a
रौद्रः क्षत्रियधर्मोऽयं गुरुणा यदयुध्यत | 023c
इत्यब्रुवञ्जनास्तत्र सङ्ग्रामशिरसि स्थिताः || 023e
वीरौ तावपि संरब्धौ सन्निकृष्टौ महारथौ | 024a
छादयेतां शरव्रातैरन्योन्यमपराजितौ || 024c
विस्फार्य सुमहच्चापं हेमपृष्ठं दुरासदम् | 025a
संरब्धोऽथ भरद्वाजः फल्गुनं प्रत्ययुध्यत || 025c
स सायकमयैर्जालैरर्जुनस्य रथं प्रति | 026a
भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् || 026c
पार्थं च स महाबाहुर्महावेगैर्महारथः | 027a
विव्याध निशितैर्बाणैर्मेघो वृष्ट्येव पर्वतम् || 027c
तथैव दिव्यं गाण्डीवं धनुरादाय पाण्डवः | 028a
शत्रुघ्नं वेगवद्धृष्टो भारसाधनमुत्तमम् | 028c
विससर्ज शरांश्चित्रान्सुवर्णविकृतान्बहून् || 028e
नाशयञ्शरवर्षाणि भारद्वाजस्य वीर्यवान् | 029a
तूर्णं चापविनिर्मुक्तैस्तदद्भुतमिवाभवत् || 029c
स रथेन चरन्पार्थः प्रेक्षणीयो धनञ्जयः | 030a
युगपद्दिक्षु सर्वासु सर्वशस्त्राण्यदर्शयत् || 030c
एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः | 031a
नादृश्यत तदा द्रोणो नीहारेणेव संवृतः || 031c
तस्याभवत्तदा रूपं संवृतस्य शरोत्तमैः | 032a
जाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः || 032c
दृष्ट्वा तु पार्थस्य रणे शरैः स्वरथमावृतम् | 033a
स विस्फार्य धनुश्चित्रं मेघस्तनितनिस्वनम् || 033c
अग्निचक्रोपमं घोरं विकर्षन्परमायुधम् | 034a
व्यशातयच्छरांस्तांस्तु द्रोणः समितिशोभनः | 034c
महानभूत्ततः शब्दो वंशानामिव दह्यताम् || 034e
जाम्बूनदमयैः पुङ्खैश्चित्रचापवरातिगैः | 035a
प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम् || 035c
ततः कनकपुङ्खानां शराणां नतपर्वणाम् | 036a
वियच्चराणां वियति दृश्यन्ते बहुशः प्रजाः || 036c
द्रोणस्य पुङ्खसक्ताश्च प्रभवन्तः शरासनात् | 037a
एको दीर्घ इवादृश्यदाकाशे संहतः शरः || 037c
एवं तौ स्वर्णविकृतान्विमुञ्चन्तौ महाशरान् | 038a
आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः || 038c
शरास्तयोश्च विबभुः कङ्कबर्हिणवाससः | 039a
पङ्क्त्यः शरदि खस्थानां हंसानां चरतामिव || 039c
युद्धं समभवत्तत्र सुसंरब्धं महात्मनोः | 040a
द्रोणपाण्डवयोर्घोरं वृत्रवासवयोरिव || 040c
तौ गजाविव चासाद्य विषाणाग्रैः परस्परम् | 041a
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः || 041c
तौ व्यवाहरतां शूरौ संरब्धौ रणशोभिनौ | 042a
उदीरयन्तौ समरे दिव्यान्यस्त्राणि भागशः || 042c
अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान् 043a
न्यवारयच्छितैर्बाणैरर्जुनो जयतां वरः || 043c
दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः | 044a
इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत् || 044c
जिघांसन्तं नरव्याघ्रमर्जुनं तिग्मतेजसम् | 045a
आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः | 045c
अर्जुनेन सहाक्रीडच्छरैः सन्नतपर्वभिः || 045e
दिव्यान्यस्त्राणि मुञ्चन्तं भारद्वाजं महारणे | 046a
अस्त्रैरस्त्राणि संवार्य फल्गुनः समयोधयत् || 046c
तयोरासीत्सम्प्रहारः क्रुद्धयोर्नरसिंहयोः | 047a
अमर्षिणोस्तदान्योन्यं देवदानवयोरिव || 047c
ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः | 048a
द्रोणेन मुक्तं मुक्तं तु ग्रसते स्म पुनः पुनः || 048c
एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ्शरान् | 049a
एकच्छायं चक्रतुस्तावाकाशं शरवृष्टिभिः || 049c
ततोऽर्जुनेन मुक्तानां पततां च शरीरिषु | 050a
पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः || 050c
ततो नागा रथाश्चैव सादिनश्च विशां पते | 051a
शोणिताक्ता व्यदृश्यन्त पुष्पिता इव किंशुकाः || 051c
बाहुभिश्च सकेयूरैर्विचित्रैश्च महारथैः | 052a
सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः || 052c
योधैश्च निहतैस्तत्र पार्थबाणप्रपीडितैः | 053a
बलमासीत्समुद्भ्रान्तं द्रोणार्जुनसमागमे || 053c
विधुन्वानौ तु तौ वीरौ धनुषी भारसाधने | 054a
आच्छादयेतामन्योन्यं तितक्षन्तौ रणेषुभिः || 054c
अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् | 055a
दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् || 055c
प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम् | 056a
जेतारं देवदैत्यानां सर्पाणां च महारथम् | 056c
अविश्रमं च शिक्षां च लाघवं दूरपातिताम् | 057a
पार्थस्य समरे दृष्ट्वा द्रोणस्याभूच्च विस्मयः || 057c
अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः | 058a
058c विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभ || तस्य बाणमयं वर्षं शलभानामिवायतम् | 059a
न च बाणान्तरे वायुरस्य शक्नोति सर्पितुम् || 059c
अनिशं सन्दधानस्य शरानुत्सृजतस्तदा | 060a
ददृशे नान्तरं किञ्चित्पार्थस्याददतोऽपि च || 060c
तथा शीघ्रास्त्रयुद्धे तु वर्तमाने सुदारुणे | 061a
शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदीरयत् || 061c
ततः शतसहस्राणि शराणां नतपर्वणाम् | 062a
युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात् || 062c
अवकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना | 063a
हाहाकारो महानासीत्सैन्यानां भरतर्षभ || 063c
पाण्डवस्य तु शीघ्रास्त्रं मघवान्समपूजयत् | 064a
गन्धर्वाप्सरसश्चैव ये च तत्र समागताः || 064c
ततो वृन्देन महता रथानां रथयूथपः | 065a
आचार्यपुत्रः सहसा पाण्डवं प्रत्यवारयत् || 065c
अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः | 066a
पूजयामास पार्थस्य कोपं चास्याकरोद्भृशम् || 066c
स मन्युवशमापन्नः पार्थमभ्यद्रवद्रणे | 067a
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् || 067c
आवृत्य तु महाबाहुर्यतो द्रौणिस्ततो हयान् | 068a
अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् || 068c
स तु लब्ध्वान्तरं तूर्णमपायाज्जवनैर्हयैः | 069a
छिन्नवर्मध्वजः शूरो निकृत्तः परमेषुभिः || 069c