वैशम्पायन उवाच || 001
एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः | 001a
आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः | 001c
अर्जुनं प्रति संयोद्धुं युद्धार्थी स महारथः || 001e
तौ रथौ सूर्यसङ्काशौ योत्स्यमानौ महाबलौ | 002a
शारदाविव जीमूतौ व्यरोचेतां व्यवस्थितौ || 002c
पार्थोऽपि विश्रुतं लोके गाण्डीवं परमायुधम् | 003a
विकृष्य चिक्षेप बहून्नाराचान्मर्मभेदिनः || 003c
तानप्राप्ताञ्शितैर्बाणैर्नाराचान्रक्तभोजनान् | 004a
कृपश्चिच्छेद पार्थस्य शतशोऽथ सहस्रशः || 004c
ततः पार्थश्च सङ्क्रुद्धश्चित्रान्मार्गान्प्रदर्शयन् | 005a
दिशः सञ्छादयन्बाणैः प्रदिशश्च महारथः || 005c
एकच्छायमिवाकाशं प्रकुर्वन्सर्वतः प्रभुः | 006a
प्रच्छादयदमेयात्मा पार्थः शरशतैः कृपम् || 006c
स शरैरर्पितः क्रुद्धः शितैरग्निशिखोपमैः | 007a
तूर्णं शरसहस्रेण पार्थमप्रतिमौजसम् | 007c
अर्पयित्वा महात्मानं ननाद समरे कृपः || 007e
ततः कनकपुङ्खाग्रैर्वीरः सन्नतपर्वभिः | 008a
त्वरन्गाण्डीवनिर्मुक्तैरर्जुनस्तस्य वाजिनः | 008c
चतुर्भिश्चतुरस्तीक्ष्णैरविध्यत्परमेषुभिः || 008e
ते हया निशितैर्विद्धा ज्वलद्भिरिव पन्नगैः | 009a
उत्पेतुः सहसा सर्वे कृपः स्थानादथाच्यवत् || 009c
च्युतं तु गौतमं स्थानात्समीक्ष्य कुरुनन्दनः | 010a
नाविध्यत्परवीरघ्नो रक्षमाणोऽस्य गौरवम् || 010c
स तु लब्ध्वा पुनः स्थानं गौतमः सव्यसाचिनम् | 011a
विव्याध दशभिर्बाणैस्त्वरितः कङ्कपत्रिभिः || 011c
ततः पार्थो धनुस्तस्य भल्लेन निशितेन च | 012a
चिच्छेदैकेन भूयश्च हस्ताच्चापमथाहरत् || 012c
अथास्य कवचं बाणैर्निशितैर्मर्मभेदिभिः | 013a
व्यधमन्न च पार्थोऽस्य शरीरमवपीडयत् || 013c
तस्य निर्मुच्यमानस्य कवचात्काय आबभौ | 014a
समये मुच्यमानस्य सर्पस्येव तनुर्यथा || 014c
छिन्ने धनुषि पार्थेन सोऽन्यदादाय कार्मुकम् | 015a
चकार गौतमः सज्यं तदद्भुतमिवाभवत् || 015c
स तदप्यस्य कौन्तेयश्चिच्छेद नतपर्वणा | 016a
एवमन्यानि चापानि बहूनि कृतहस्तवत् | 016c
शारद्वतस्य चिच्छेद पाण्डवः परवीरहा || 016e
स छिन्नधनुरादाय अथ शक्तिं प्रतापवान् | 017a
प्राहिणोत्पाण्डुपुत्राय प्रदीप्तामशनीमिव || 017c
तामर्जुनस्तदायान्तीं शक्तिं हेमविभूषिताम् | 018a
वियद्गतां महोल्काभां चिच्छेद दशभिः शरैः | 018c
सापतद्दशधा छिन्ना भूमौ पार्थेन धीमता || 018e
युगमध्ये तु भल्लैस्तु ततः स सधनुः कृपः | 019a
तमाशु निशितैः पार्थं बिभेद दशभिः शरैः || 019c
ततः पार्थो महातेजा विशिखानग्नितेजसः | 020a
चिक्षेप समरे क्रुद्धस्त्रयोदश शिलाशितान् || 020c
अथास्य युगमेकेन चतुर्भिश्चतुरो हयान् | 021a
षष्ठेन च शिरः कायाच्छरेण रथसारथेः || 021c
त्रिभिस्त्रिवेणुं समरे द्वाभ्यामक्षौ महाबलः | 022a
द्वादशेन तु भल्लेन चकर्तास्य ध्वजं तथा || 022c
ततो वज्रनिकाशेन फल्गुनः प्रहसन्निव | 023a
त्रयोदशेनेन्द्रसमः कृपं वक्षस्यताडयत् || 023c
स छिन्नधन्वा विरथो हताश्वो हतसारथिः | 024a
गदापाणिरवप्लुत्य तूर्णं चिक्षेप तां गदाम् || 024c
सा तु मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता | 025a
अर्जुनेन शरैर्नुन्ना प्रतिमार्गमथागमत् || 025c
ततो योधाः परीप्सन्तः शारद्वतममर्षणम् | 026a
सर्वतः समरे पार्थं शरवर्षैरवाकिरन् || 026c
ततो विराटस्य सुतः सव्यमावृत्य वाजिनः | 027a
यमकं मण्डलं कृत्वा तान्योधान्प्रत्यवारयत् || 027c
ततः कृपमुपादाय विरथं ते नरर्षभाः | 028a
अपाजह्रुर्महावेगाः कुन्तीपुत्राद्धनञ्जयात् || 028c