वैशम्पायन उवाच || 001
अपयाते तु राधेये दुर्योधनपुरोगमाः | 001a
अनीकेन यथास्वेन शरैरार्च्छन्त पाण्डवम् || 001c
बहुधा तस्य सैन्यस्य व्यूढस्यापततः शरैः | 002a
अभियानीयमाज्ञाय वैराटिरिदमब्रवीत् || 002c
आस्थाय रुचिरं जिष्णो रथं सारथिना मया | 003a
कतमद्यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया || 003c
अर्जुन उवाच || 004
लोहिताक्षमरिष्टं यं वैयाघ्रमनुपश्यसि | 004a
नीलां पताकामाश्रित्य रथे तिष्ठन्तमुत्तर || 004c
कृपस्यैतद्रथानीकं प्रापयस्वैतदेव माम् | 005a
एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः || 005c
कमण्डलुर्ध्वजे यस्य शातकुम्भमयः शुभः | 006a
आचार्य एष वै द्रोणः सर्वशस्त्रभृतां वरः || 006c
सुप्रसन्नमना वीर कुरुष्वैनं प्रदक्षिणम् | 007a
अत्रैव चाविरोधेन एष धर्मः सनातनः || 007c
यदि मे प्रथमं द्रोणः शरीरे प्रहरिष्यति | 008a
ततोऽस्य प्रहरिष्यामि नास्य कोपो भविष्यति || 008c
अस्याविदूरे तु धनुर्ध्वजाग्रे यस्य दृश्यते | 009a
आचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः || 009c
सदा ममैष मान्यश्च सर्वशस्त्रभृतामपि | 010a
एतस्य त्वं रथं प्राप्य निवर्तेथाः पुनः पुनः || 010c
य एष तु रथानीके सुवर्णकवचावृतः | 011a
सेनाग्र्येण तृतीयेन व्यवहार्येण तिष्ठति || 011c
यस्य नागो ध्वजाग्रे वै हेमकेतनसंश्रितः | 012a
धृतराष्ट्रात्मजः श्रीमानेष राजा सुयोधनः || 012c
एतस्याभिमुखं वीर रथं पररथारुजः | 013a
प्रापयस्वैष तेजोभिप्रमाथी युद्धदुर्मदः || 013c
एष द्रोणस्य शिष्याणां शीघ्रास्त्रः प्रथमो मतः | 014a
एतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं शरैः || 014c
नागकक्ष्या तु रुचिरा ध्वजाग्रे यस्य तिष्ठति | 015a
एष वैकर्तनः कर्णो विदितः पूर्वमेव ते || 015c
एतस्य रथमास्थाय राधेयस्य दुरात्मनः | 016a
यत्तो भवेथाः सङ्ग्रामे स्पर्धत्येष मया सदा || 016c
यस्तु नीलानुसारेण पञ्चतारेण केतुना | 017a
हस्तावापी बृहद्धन्वा रथे तिष्ठति वीर्यवान् || 017c
यस्य तारार्कचित्रोऽसौ रथे ध्वजवरः स्थितः | 018a
यस्यैतत्पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति || 018c
महतो रथवंशस्य नानाध्वजपताकिनः | 019a
बलाहकाग्रे सूर्यो वा य एष प्रमुखे स्थितः || 019c
हैमं चन्द्रार्कसङ्काशं कवचं यस्य दृश्यते | 020a
जातरूपशिरस्त्राणस्त्रासयन्निव मे मनः || 020c
एष शान्तनवो भीष्मः सर्वेषां नः पितामहः | 021a
राजश्रियावबद्धस्तु दुर्योधनवशानुगः || 021c
पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् | 022a
एतेन युध्यमानस्य यत्तः संयच्छ मे हयान् || 022c
ततोऽभ्यवहदव्यग्रो वैराटिः सव्यसाचिनम् | 023a
यत्रातिष्ठत्कृपो राजन्योत्स्यमानो धनञ्जयम् || 023c