वैशम्पायन उवाच || 001
स शत्रुसेनां तरसा प्रणुद्य गास्ता विजित्याथ धनुर्धराग्र्यः | 001a
दुर्योधनायाभिमुखं प्रयातो भूयोऽर्जुनः प्रियमाजौ चिकीर्षन् || 001c
गोषु प्रयातासु जवेन मत्स्यान्किरीटिनं कृतकार्यं च मत्वा | 002a
दुर्योधनायाभिमुखं प्रयान्तं कुरुप्रवीराः सहसाभिपेतुः || 002c
तेषामनीकानि बहूनि गाढं व्यूढानि दृष्ट्वा बहुलध्वजानि | 003a
मत्स्यस्य पुत्रं द्विषतां निहन्ता वैराटिमामन्त्र्य ततोऽभ्युवाच || 003c
एतेन तूर्णं प्रतिपादयेमाञ्श्वेतान्हयान्काञ्चनरश्मियोक्त्रान् | 004a
जवेन सर्वेण कुरु प्रयत्नमासादयैतद्रथसिंहवृन्दम् || 004c
गजो गजेनेव मया दुरात्मा यो योद्धुमाकाङ्क्षति सूतपुत्रः | 005a
तमेव मां प्रापय राजपुत्र दुर्योधनापाश्रयजातदर्पम् || 005c
स तैर्हयैर्वातजवैर्बृहद्भिः पुत्रो विराटस्य सुवर्णकक्ष्यैः | 006a
विध्वंसयंस्तद्रथिनामनीकं ततोऽवहत्पाण्डवमाजिमध्ये || 006c
तं चित्रसेनो विशिखैर्विपाठैः सङ्ग्रामजिच्छत्रुसहो जयश्च | 007a
प्रत्युद्ययुर्भारतमापतन्तं महारथाः कर्णमभीप्समानाः || 007c
ततः स तेषां पुरुषप्रवीरः शरासनार्चिः शरवेगतापः | 008a
व्रातान्रथानामदहत्स मन्युर्वनं यथाग्निः कुरुपुङ्गवानाम् || 008c
तस्मिंस्तु युद्धे तुमुले प्रवृत्ते पार्थं विकर्णोऽतिरथं रथेन | 009a
विपाठवर्षेण कुरुप्रवीरो भीमेन भीमानुजमाससाद || 009c
ततो विकर्णस्य धनुर्विकृष्य जाम्बूनदाग्र्योपचितं दृढज्यम् | 010a
अपातयद्ध्वजमस्य प्रमथ्य छिन्नध्वजः सोऽप्यपयाज्जवेन || 010c
तं शात्रवाणां गणबाधितारं कर्माणि कुर्वाणममानुषाणि | 011a
शत्रुन्तपः कोपममृष्यमाणः समर्पयत्कूर्मनखेन पार्थम् || 011c
स तेन राज्ञातिरथेन विद्धो विगाहमानो ध्वजिनीं कुरूणाम् | 012a
शत्रुन्तपं पञ्चभिराशु विद्ध्वा ततोऽस्य सूतं दशभिर्जघान || 012c
ततः स विद्धो भरतर्षभेण बाणेन गात्रावरणातिगेन | 013a
गतासुराजौ निपपात भूमौ नगो नगाग्रादिव वातरुग्णः || 013c
रथर्षभास्ते तु रथर्षभेण वीरा रणे वीरतरेण भग्नाः | 014a
चकम्पिरे वातवशेन काले प्रकम्पितानीव महावनानि || 014c
हतास्तु पार्थेन नरप्रवीरा भूमौ युवानः सुषुपुः सुवेषाः | 015a
वसुप्रदा वासवतुल्यवीर्याः पराजिता वासवजेन सङ्ख्ये | 015c
सुवर्णकार्ष्णायसवर्मनद्धा नागा यथा हैमवताः प्रवृद्धाः || 015e
तथा स शत्रून्समरे विनिघ्नन्गाण्डीवधन्वा पुरुषप्रवीरः | 016a
चचार सङ्ख्ये प्रदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते || 016c
प्रकीर्णपर्णानि यथा वसन्ते विशातयित्वात्यनिलो नुदन्खे | 017a
तथा सपत्नान्विकिरन्किरीटी चचार सङ्ख्येऽतिरथो रथेन || 017c
शोणाश्ववाहस्य हयान्निहत्य वैकर्तनभ्रातुरदीनसत्त्वः | 018a
एकेन सङ्ग्रामजितः शरेण शिरो जहाराथ किरीटमाली || 018c
तस्मिन्हते भ्रातरि सूतपुत्रो वैकर्तनो वीर्यमथाददानः | 019a
प्रगृह्य दन्ताविव नागराजो महर्षभं व्याघ्र इवाभ्यधावत् || 019c
स पाण्डवं द्वादशभिः पृषत्कैर्वैकर्तनः शीघ्रमुपाजघान | 020a
विव्याध गात्रेषु हयांश्च सर्वान्विराटपुत्रं च शरैर्निजघ्ने || 020c
स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान्निशितान्निषङ्गात् | 021a
आकर्णपूर्णं च धनुर्विकृष्य विव्याध बाणैरथ सूतपुत्रम् || 021c
अथास्य बाहूरुशिरोललाटं ग्रीवां रथाङ्गानि परावमर्दी | 022a
स्थितस्य बाणैर्युधि निर्बिभेद गाण्डीवमुक्तैरशनिप्रकाशैः || 022c
स पार्थमुक्तैर्विशिखैः प्रणुन्नो गजो गजेनेव जितस्तरस्वी | 023a
विहाय सङ्ग्रामशिरः प्रयातो वैकर्तनः पाण्डवबाणतप्तः || 023c