वैशम्पायन उवाच || 001
तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः | 001a
उपायादर्जुनस्तूर्णं रथघोषेण नादयन् || 001c
ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् | 002a
दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् || 002c
ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत् | 003a
महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् || 003c
एतद्ध्वजाग्रं पार्थस्य दूरतः सम्प्रकाशते | 004a
एष घोषः सजलदो रोरवीति च वानरः || 004c
एष तिष्ठन्रथश्रेष्ठो रथे रथवरप्रणुत् | 005a
उत्कर्षति धनुःश्रेष्ठं गाण्डीवमशनिस्वनम् || 005c
इमौ हि बाणौ सहितौ पादयोर्मे व्यवस्थितौ | 006a
अपरौ चाप्यतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ || 006c
निरुष्य हि वने वासं कृत्वा कर्मातिमानुषम् | 007a
अभिवादयते पार्थः श्रोत्रे च परिपृच्छति || 007c
अर्जुन उवाच || 008
इषुपाते च सेनाया हयान्संयच्छ सारथे | 008a
यावत्समीक्षे सैन्येऽस्मिन्क्वासौ कुरुकुलाधमः || 008c
सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् | 009a
तस्य मूर्ध्नि पतिष्यामि तत एते पराजिताः || 009c
एष व्यवस्थितो द्रोणो द्रौणिश्च तदनन्तरम् | 010a
भीष्मः कृपश्च कर्णश्च महेष्वासा व्यवस्थिताः || 010c
राजानं नात्र पश्यामि गाः समादाय गच्छति | 011a
दक्षिणं मार्गमास्थाय शङ्के जीवपरायणः || 011c
उत्सृज्यैतद्रथानीकं गच्छ यत्र सुयोधनः | 012a
तत्रैव योत्स्ये वैराटे नास्ति युद्धं निरामिषम् | 012c
तं जित्वा विनिवर्तिष्ये गाः समादाय वै पुनः || 012e
वैशम्पायन उवाच || 013
एवमुक्तः स वैराटिर्हयान्संयम्य यत्नतः | 013a
नियम्य च ततो रश्मीन्यत्र ते कुरुपुङ्गवाः | 013c
अचोदयत्ततो वाहान्यतो दुर्योधनस्ततः || 013e
उत्सृज्य रथवंशं तु प्रयाते श्वेतवाहने | 014a
अभिप्रायं विदित्वास्य द्रोणो वचनमब्रवीत् || 014c
नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमिच्छति | 015a
तस्य पार्ष्णिं ग्रहीष्यामो जवेनाभिप्रयास्यतः || 015c
न ह्येनमभिसङ्क्रुद्धमेको युध्येत संयुगे | 016a
अन्यो देवात्सहस्राक्षात्कृष्णाद्वा देवकीसुतात् || 016c
किं नो गावः करिष्यन्ति धनं वा विपुलं तथा | 017a
दुर्योधनः पार्थजले पुरा नौरिव मज्जति || 017c
तथैव गत्वा बीभत्सुर्नाम विश्राव्य चात्मनः | 018a
शलभैरिव तां सेनां शरैः शीघ्रमवाकिरत् || 018c
कीर्यमाणाः शरौघैस्तु योधास्ते पार्थचोदितैः | 019a
नापश्यन्नावृतां भूमिमन्तरिक्षं च पत्रिभिः || 019c
तेषां नात्मनिनो युद्धे नापयानेऽभवन्मतिः | 020a
शीघ्रत्वमेव पार्थस्य पूजयन्ति स्म चेतसा || 020c
ततः शङ्खं प्रदध्मौ स द्विषतां लोमहर्षणम् | 021a
विस्फार्य च धनुःश्रेष्ठं ध्वजे भूतान्यचोदयत् || 021c
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च | 022a
अमानुषाणां तेषां च भूतानां ध्वजवासिनाम् || 022c
ऊर्ध्वं पुच्छान्विधुन्वाना रेभमाणाः समन्ततः | 023a
गावः प्रतिन्यवर्तन्त दिशमास्थाय दक्षिणाम् || 023c