भीष्म उवाच || 001
कलांशास्तात युज्यन्ते मुहूर्ताश्च दिनानि च | 001a
अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा || 001c
ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि | 002a
एवं कालविभागेन कालचक्रं प्रवर्तते || 002c
तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात् | 003a
पञ्चमे पञ्चमे वर्षे द्वौ मासावुपजायतः || 003c
तेषामभ्यधिका मासाः पञ्च द्वादश च क्षपाः | 004a
त्रयोदशानां वर्षाणामिति मे वर्तते मतिः || 004c
सर्वं यथावच्चरितं यद्यदेभिः परिश्रुतम् | 005a
एवमेतद्ध्रुवं ज्ञात्वा ततो बीभत्सुरागतः || 005c
सर्वे चैव महात्मानः सर्वे धर्मार्थकोविदाः | 006a
येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः || 006c
अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम् | 007a
न चापि केवलं राज्यमिच्छेयुस्तेऽनुपायतः || 007c
तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः | 008a
धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात् || 008c
यच्चानृत इति ख्यायेद्यच्च गच्छेत्पराभवम् | 009a
वृणुयुर्मरणं पार्था नानृतत्वं कथञ्चन || 009c
प्राप्ते तु काले प्राप्तव्यं नोत्सृजेयुर्नरर्षभाः | 010a
अपि वज्रभृता गुप्तं तथावीर्या हि पाण्डवाः || 010c
प्रतियुध्याम समरे सर्वशस्त्रभृतां वरम् | 011a
तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम् | 011c
तत्संविधीयतां क्षिप्रं मा नो ह्यर्थोऽतिगात्परान् || 011e
न हि पश्यामि सङ्ग्रामे कदाचिदपि कौरव | 012a
एकान्तसिद्धिं राजेन्द्र सम्प्राप्तश्च धनञ्जयः || 012c
सम्प्रवृत्ते तु सङ्ग्रामे भावाभावौ जयाजयौ | 013a
अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम् || 013c
तस्माद्युद्धावचरिकं कर्म वा धर्मसंहितम् | 014a
क्रियतामाशु राजेन्द्र सम्प्राप्तो हि धनञ्जयः || 014c
दुर्योधन उवाच || 015
नाहं राज्यं प्रदास्यामि पाण्डवानां पितामह | 015a
युद्धावचारिकं यत्तु तच्छीघ्रं संविधीयताम् || 015c
भीष्म उवाच || 016
अत्र या मामकी बुद्धिः श्रूयतां यदि रोचते | 016a
क्षिप्रं बलचतुर्भागं गृह्य गच्छ पुरं प्रति | 016c
ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु || 016e
वयं त्वर्धेन सैन्येन प्रतियोत्स्याम पाण्डवम् | 017a
मत्स्यं वा पुनरायातमथ वापि शतक्रतुम् || 017c
आचार्यो मध्यतस्तिष्ठत्वश्वत्थामा तु सव्यतः | 018a
कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम् || 018c
अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः | 019a
अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन् || 019c