भीष्म उवाच || 001
साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति | 001c
कर्णस्तु क्षत्रधर्मेण यथावद्योद्धुमिच्छति || 001c
आचार्यो नाभिषक्तव्यः पुरुषेण विजानता | 002c
देशकालौ तु सम्प्रेक्ष्य योद्धव्यमिति मे मतिः || 002c
यस्य सूर्यसमाः पञ्च सपत्नाः स्युः प्रहारिणः | 003c
कथमभ्युदये तेषां न प्रमुह्येत पण्डितः || 003c
स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः | 004c
तस्माद्राजन्ब्रवीम्येष वाक्यं ते यदि रोचते || 004c
कर्णो यदभ्यवोचन्नस्तेजःसञ्जननाय तत् | 005c
आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम् || 005c
नायं कालो विरोधस्य कौन्तेये समुपस्थिते | 006c
क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च || 006c
भवतां हि कृतास्त्रत्वं यथादित्ये प्रभा तथा | 007c
यथा चन्द्रमसो लक्ष्म सर्वथा नापकृष्यते | 007c
एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् || 007e
चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते | 008c
नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुमः || 008c
अन्यत्र भारताचार्यात्सपुत्रादिति मे मतिः | 009c
ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते || 009c
आचार्यपुत्रः क्षमतां नायं कालः स्वभेदने | 010c
सर्वे संहत्य युध्यामः पाकशासनिमागतम् || 010c
बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः | 011c
मुख्यो भेदो हि तेषां वै पापिष्ठो विदुषां मतः || 011c
अश्वत्थामोवाच || 012
आचार्य एव क्षमतां शान्तिरत्र विधीयताम् | 012c
अभिषज्यमाने हि गुरौ तद्वृत्तं रोषकारितम् || 012c
वैशम्पायन उवाच || 013
ततो दुर्योधनो द्रोणं क्षमयामास भारत | 013c
सह कर्णेन भीष्मेण कृपेण च महात्मना || 013c
द्रोण उवाच || 014
यदेव प्रथमं वाक्यं भीष्मः शान्तनवोऽब्रवीत् | 014c
तेनैवाहं प्रसन्नो वै परमत्र विधीयताम् || 014c
यथा दुर्योधनेऽयत्ते नागः स्पृशति सैनिकान् | 015c
साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम् || 015c
वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनञ्जयः | 016c
धनं वालभमानोऽत्र नाद्य नः क्षन्तुमर्हति || 016c
यथा नायं समायुज्याद्धार्तराष्ट्रान्कथञ्चन | 017c
यथा च न पराजय्यात्तथा नीतिर्विधीयताम् || 017c
उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम् | 018c
तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि || 018c