अश्वत्थामोवाच || 001
न च तावज्जिता गावो न च सीमान्तरं गताः | 001a
न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे || 001c
सङ्ग्रामान्सुबहूञ्जित्वा लब्ध्वा च विपुलं धनम् | 002a
विजित्य च परां भूमिं नाहुः किञ्चन पौरुषम् || 002c
पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः | 003a
तूष्णीं धारयते लोकान्वसुधा सचराचरान् || 003c
चातुर्वर्ण्यस्य कर्माणि विहितानि मनीषिभिः | 004a
धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति || 004c
अधीत्य ब्राह्मणो वेदान्याजयेत यजेत च | 005a
क्षत्रियो धनुराश्रित्य यजेतैव न याजयेत् | 005c
वैश्योऽधिगम्य द्रव्याणि ब्रह्मकर्माणि कारयेत् || 005e
वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् | 006a
सत्कुर्वन्ति महाभागा गुरून्सुविगुणानपि || 006c
प्राप्य द्यूतेन को राज्यं क्षत्रियस्तोष्टुमर्हति | 007a
तथा नृशंसरूपेण यथान्यः प्राकृतो जनः || 007c
तथावाप्तेषु वित्तेषु को विकत्थेद्विचक्षणः | 008a
निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा || 008c
कतमद्द्वैरथं युद्धं यत्राजैषीर्धनञ्जयम् | 009a
नकुलं सहदेवं च धनं येषां त्वया हृतम् || 009c
युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनां वरः | 010a
इन्द्रप्रस्थं त्वया कस्मिन्सङ्ग्रामे निर्जितं पुरा || 010c
तथैव कतमं युद्धं यस्मिन्कृष्णा जिता त्वया | 011a
एकवस्त्रा सभां नीता दुष्टकर्मन्रजस्वला || 011c
मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा | 012a
कर्म कारयिथाः शूर तत्र किं विदुरोऽब्रवीत् || 012c
यथाशक्ति मनुष्याणां शममालक्षयामहे | 013a
अन्येषां चैव सत्त्वानामपि कीटपिपीलिके || 013c
द्रौपद्यास्तं परिक्लेशं न क्षन्तुं पाण्डवोऽर्हति | 014a
दुःखाय धार्तराष्ट्राणां प्रादुर्भूतो धनञ्जयः || 014c
त्वं पुनः पण्डितो भूत्वा वाचं वक्तुमिहेच्छसि | 015a
वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति || 015c
नैष देवान्न गन्धर्वान्नासुरान्न च राक्षसान् | 016a
भयादिह न युध्येत कुन्तीपुत्रो धनञ्जयः || 016c
यं यमेषोऽभिसङ्क्रुद्धः सङ्ग्रामेऽभिपतिष्यति | 017a
वृक्षं गरुडवेगेन विनिहत्य तमेष्यति || 017c
त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् | 018a
वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् || 018c
दैवं दैवेन युध्येत मानुषेण च मानुषम् | 019a
अस्त्रेणास्त्रं समाहन्यात्कोऽर्जुनेन समः पुमान् || 019c
पुत्रादनन्तरः शिष्य इति धर्मविदो विदुः| 020a
एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः || 020c
यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाहरः | 021a
यथानैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम् || 021c
अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः | 022a
दुर्द्यूतदेवी गान्धारः शकुनिर्युध्यतामिह || 022c
नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च | 023a
ज्वलतो निशितान्बाणांस्तीक्ष्णान्क्षिपति गाण्डिवम् || 023c
न हि गाण्डीवनिर्मुक्ता गार्ध्रपत्राः सुतेजनाः | 024a
अन्तरेष्ववतिष्ठन्ति गिरीणामपि दारणाः || 024c
अन्तकः शमनो मृत्युस्तथाग्निर्वडवामुखः | 025a
कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनञ्जयः || 025c
युध्यतां काममाचार्यो नाहं योत्स्ये धनञ्जयम् | 026a
मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवां पदम् || 026c