कर्ण उवाच || 001
सर्वानायुष्मतो भीतान्सन्त्रस्तानिव लक्षये | 001a
अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् || 001c
यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः | 002a
अहमावारयिष्यामि वेलेव मकरालयम् || 002c
मम चापप्रमुक्तानां शराणां नतपर्वणाम् | 003a
नावृत्तिर्गच्छतामस्ति सर्पाणामिव सर्पताम् || 003c
रुक्मपुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया | 004a
छादयन्तु शराः पार्थं शलभा इव पादपम् || 004c
शराणां पुङ्खसक्तानां मौर्व्याभिहतया दृढम् | 005a
श्रूयतां तलयोः शब्दो भेर्योराहतयोरिव || 005c
समाहितो हि बीभत्सुर्वर्षाण्यष्टौ च पञ्च च | 006a
जातस्नेहश्च युद्धस्य मयि सम्प्रहरिष्यति || 006c
पात्रीभूतश्च कौन्तेयो ब्राह्मणो गुणवानिव | 007a
शरौघान्प्रतिगृह्णातु मया मुक्तान्सहस्रशः || 007c
एष चैव महेष्वासस्त्रिषु लोकेषु विश्रुतः | 008a
अहं चापि कुरुश्रेष्ठा अर्जुनान्नावरः क्वचित् || 008c
इतश्चेतश्च निर्मुक्तैः काञ्चनैर्गार्ध्रवाजितैः | 009a
दृश्यतामद्य वै व्योम खद्योतैरिव संवृतम् || 009c
अद्याहमृणमक्षय्यं पुरा वाचा प्रतिश्रुतम् | 010a
धार्तराष्ट्रस्य दास्यामि निहत्य समरेऽर्जुनम् || 010c
अन्तरा छिद्यमानानां पुङ्खानां व्यतिशीर्यताम् | 011a
शलभानामिवाकाशे प्रचारः सम्प्रदृश्यताम् || 011c
इन्द्राशनिसमस्पर्शं महेन्द्रसमतेजसम् | 012a
अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् || 012c
तमग्निमिव दुर्धर्षमसिशक्तिशरेन्धनम् | 013a
पाण्डवाग्निमहं दीप्तं प्रदहन्तमिवाहितान् || 013c
अश्ववेगपुरोवातो रथौघस्तनयित्नुमान् | 014a
शरधारो महामेघः शमयिष्यामि पाण्डवम् || 014c
मत्कार्मुकविनिर्मुक्ताः पार्थमाशीविषोपमाः | 015a
शराः समभिसर्पन्तु वल्मीकमिव पन्नगाः || 015c
जामदग्न्यान्मया ह्यस्त्रं यत्प्राप्तमृषिसत्तमात् | 016a
तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम् || 016c
ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया | 017a
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् || 017c
शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् | 018a
दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः || 018c
अद्य दुर्योधनस्याहं शल्यं हृदि चिरस्थितम् | 019a
समूलमुद्धरिष्यामि बीभत्सुं पातयन्रथात् || 019c
हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् | 020a
निःश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः || 020c
कामं गच्छन्तु कुरवो धनमादाय केवलम् | 021a
रथेषु वापि तिष्ठन्तो युद्धं पश्यन्तु मामकम् || 021c