वैशम्पायन उवाच || 001
उत्तरं सारथिं कृत्वा शमीं कृत्वा प्रदक्षिणम् | 001a
आयुधं सर्वमादाय ततः प्रायाद्धनञ्जयः || 001c
ध्वजं सिंहं रथात्तस्मादपनीय महारथः | 002a
प्रणिधाय शमीमूले प्रायादुत्तरसारथिः || 002c
दैवीं मायां रथे युक्त्वा विहितां विश्वकर्मणा | 003a
काञ्चनं सिंहलाङ्गूलं ध्वजं वानरलक्षणम् || 003c
मनसा चिन्तयामास प्रसादं पावकस्य च | 004a
स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्यचोदयत् || 004c
सपताकं विचित्राङ्गं सोपासङ्गं महारथः | 005a
रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः || 005c
बद्धासिः सतनुत्राणः प्रगृहीतशरासनः | 006a
ततः प्रायादुदीचीं स कपिप्रवरकेतनः || 006c
स्वनवन्तं महाशङ्खं बलवानरिमर्दनः | 007a
प्राधमद्बलमास्थाय द्विषतां लोमहर्षणम् || 007c
ततस्ते जवना धुर्या जानुभ्यामगमन्महीम् | 008a
उत्तरश्चापि सन्त्रस्तो रथोपस्थ उपाविशत् || 008c
संस्थाप्य चाश्वान्कौन्तेयः समुद्यम्य च रश्मिभिः | 009a
उत्तरं च परिष्वज्य समाश्वासयदर्जुनः || 009c
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परन्तप | 010a
कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि || 010c
श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः | 011a
कुञ्जराणां च नदतां व्यूढानीकेषु तिष्ठताम् || 011c
स त्वं कथमिहानेन शङ्खशब्देन भीषितः | 012a
विषण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा || 012c
उत्तर उवाच || 013
श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः | 013a
कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठताम् || 013c
नैवंविधः शङ्खशब्दः पुरा जातु मया श्रुतः | 014a
ध्वजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम् | 014c
धनुषश्चैव निर्घोषः श्रुतपूर्वो न मे क्वचित् || 014e
अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च | 015a
रथस्य च निनादेन मनो मुह्यति मे भृशम् || 015c
व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव मे| 016a
ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे| 016c
गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ || 016e
अर्जुन उवाच || 017
एकान्ते रथमास्थाय पद्भ्यां त्वमवपीडय | 017a
दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः || 017c
वैशम्पायन उवाच || 018
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च | 018a
गाण्डीवस्य च घोषेण पृथिवी समकम्पत || 018c
द्रोण उवाच || 019
यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते | 019a
कम्पते च यथा भूमिर्नैषोऽन्यः सव्यसाचिनः || 019c
शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाजिनः | 020a
अग्नयश्च न भासन्ते समिद्धास्तन्न शोभनम् || 020c
प्रत्यादित्यं च नः सर्वे मृगा घोरप्रवादिनः | 021a
ध्वजेषु च निलीयन्ते वायसास्तन्न शोभनम् | 021c
शकुनाश्चापसव्या नो वेदयन्ति महद्भयम् || 021e
गोमायुरेष सेनाया रुवन्मध्येऽनुधावति | 022a
अनाहतश्च निष्क्रान्तो महद्वेदयते भयम् | 022c
भवतां रोमकूपाणि प्रहृष्टान्युपलक्षये || 022e
पराभूता च वः सेना न कश्चिद्योद्धुमिच्छति | 023a
विवर्णमुखभूयिष्ठाः सर्वे योधा विचेतसः | 023c
गाः सम्प्रस्थाप्य तिष्ठामो व्यूढानीकाः प्रहारिणः || 023e