उत्तर उवाच || 001
आस्थाय विपुलं वीर रथं सारथिना मया | 001a
कतमं यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया || 001c
अर्जुन उवाच || 002
प्रीतोऽस्मि पुरुषव्याघ्र न भयं विद्यते तव | 002a
सर्वान्नुदामि ते शत्रून्रणे रणविशारद || 002c
स्वस्थो भव महाबुद्धे पश्य मां शत्रुभिः सह | 003a
युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं महत् || 003c
एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे | 004a
एतं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् | 004c
अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि तेपशून् || 004e
सङ्कल्पपक्षविक्षेपं बाहुप्राकारतोरणम् | 005a
त्रिदण्डतूणसम्बाधमनेकध्वजसङ्कुलम् || 005c
ज्याक्षेपणं क्रोधकृतं नेमीनिनददुन्दुभि | 006a
नगरं ते मया गुप्तं रथोपस्थं भविष्यति || 006c
अधिष्ठितो मया सङ्ख्ये रथो गाण्डीवधन्वना | 007a
अजेयः शत्रुसैन्यानां वैराटे व्येतु ते भयम् || 007c
उत्तर उवाच || 008
बिभेमि नाहमेतेषां जानामि त्वां स्थिरं युधि | 008a
केशवेनापि सङ्ग्रामे साक्षादिन्द्रेण वा समम् || 008c
इदं तु चिन्तयन्नेव परिमुह्यामि केवलम् | 009a
निश्चयं चापि दुर्मेधा न गच्छामि कथञ्चन || 009c
एवं वीराङ्गरूपस्य लक्षणैरुचितस्य च | 010a
केन कर्मविपाकेन क्लीबत्वमिदमागतम् || 010c
मन्ये त्वां क्लीबवेषेण चरन्तं शूलपाणिनम् | 011a
गन्धर्वराजप्रतिमं देवं वापि शतक्रतुम् || 011c
अर्जुन उवाच || 012
भ्रातुर्नियोगाज्ज्येष्ठस्य संवत्सरमिदं व्रतम् | 012a
चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते || 012c
नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः | 013a
समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज || 013c
उत्तर उवाच || 014
परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा | 014a
न हीदृशाः क्लीबरूपा भवन्तीह नरोत्तमाः || 014c
सहायवानस्मि रणे युध्येयममरैरपि | 015a
साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे || 015c
अहं ते सङ्ग्रहीष्यामि हयाञ्शत्रुरथारुजः | 016a
शिक्षितो ह्यस्मि सारथ्ये तीर्थतः पुरुषर्षभ || 016c
दारुको वासुदेवस्य यथा शक्रस्य मातलिः | 017a
तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव || 017c
यस्य याते न पश्यन्ति भूमौ प्राप्तं पदं पदम् | 018a
दक्षिणं यो धुरं युक्तः सुग्रीवसदृशो हयः || 018c
योऽयं धुरं धुर्यवरो वामं वहति शोभनः | 019a
तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् || 019c
योऽयं काञ्चनसन्नाहः पार्ष्णिं वहति शोभनः | 020a
वामं सैन्यस्य मन्ये तं जवेन बलवत्तरम् || 020c
योऽयं वहति ते पार्ष्णिं दक्षिणामञ्चितोद्यतः | 021a
बलाहकादपि मतः स जवे वीर्यवत्तरः || 021c
त्वामेवायं रथो वोढुं सङ्ग्रामेऽर्हति धन्विनम् | 022a
त्वं चेमं रथमास्थाय योद्धुमर्हो मतो मम || 022c
वैशम्पायन उवाच || 023
ततो निर्मुच्य बाहुभ्यां वलयानि स वीर्यवान् || 023a
चित्रे दुन्दुभिसन्नादे प्रत्यमुञ्चत्तले शुभे || 023c
कृष्णान्भङ्गीमतः केशाञ्श्वेतेनोद्ग्रथ्य वाससा | 024a
अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः || 024c
तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः | 025a
यथा शैलस्य महतः शैलेनैवाभिजघ्नुषः || 025c
सनिर्घाताभवद्भूमिर्दिक्षु वायुर्ववौ भृशम् | 026a
भ्रान्तद्विजं खं तदासीत्प्रकम्पितमहाद्रुमम् | 026c
तं शब्दं कुरवोऽजानन्विस्फोटमशनेरिव || 027a
यदर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्रथे || 027c