उत्तर उवाच || 001
सुवर्णविकृतानीमान्यायुधानि महात्मनाम् | 001a
रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् || 001c
क्व नु स्विदर्जुनः पार्थः कौरव्यो वा युधिष्ठिरः | 002a
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः || 002c
सर्व एव महात्मानः सर्वामित्रविनाशनाः | 003a
राज्यमक्षैः पराकीर्य न श्रूयन्ते कदाचन || 003c
द्रौपदी क्व च पाञ्चाली स्त्रीरत्नमिति विश्रुता | 004a
जितानक्षैस्तदा कृष्णा तानेवान्वगमद्वनम् || 004c
अर्जुन उवाच || 005
अहमस्म्यर्जुनः पार्थः सभास्तारो युधिष्ठिरः | 005a
बल्लवो भीमसेनस्तु पितुस्ते रसपाचकः || 005c
अश्वबन्धोऽथ नकुलः सहदेवस्तु गोकुले | 006a
सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः || 006c
उत्तर उवाच || 007
दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे | 007a
प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते || 007c
अर्जुन उवाच || 008
हन्त तेऽहं समाचक्षे दश नामानि यानि मे | 008a
अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः | 008c
बीभत्सुर्विजयः कृष्णः सव्यसाची धनञ्जयः || 008e
उत्तर उवाच || 009
केनासि विजयो नाम केनासि श्वेतवाहनः | 009a
किरीटी नाम केनासि सव्यसाची कथं भवान् || 009c
अर्जुनः फल्गुनो जिष्णुः कृष्णो बीभत्सुरेव च | 010a
धनञ्जयश्च केनासि प्रब्रूहि मम तत्त्वतः | 010c
श्रुता मे तस्य वीरस्य केवला नामहेतवः || 010e
अर्जुन उवाच || 011
सर्वाञ्जनपदाञ्जित्वा वित्तमाच्छिद्य केवलम् | 011a
मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनञ्जयम् || 011c
अभिप्रयामि सङ्ग्रामे यदहं युद्धदुर्मदान् | 012a
नाजित्वा विनिवर्तामि तेन मां विजयं विदुः || 012c
श्वेताः काञ्चनसन्नाहा रथे युज्यन्ति मे हयाः | 013a
सङ्ग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः || 013c
उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्यामहं दिवा | 014a
जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः || 014c
पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः | 015a
किरीटं मूर्ध्नि सूर्याभं तेन माहुः किरीटिनम् || 015c
न कुर्यां कर्म बीभत्सं युध्यमानः कथञ्चन | 016a
तेन देवमनुष्येषु बीभत्सुरिति मां विदुः || 016c
उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे | 017a
तेन देवमनुष्येषु सव्यसाचीति मां विदुः || 017c
पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभः समः | 018a
करोमि कर्म शुक्लं च तेन मामर्जुनं विदुः || 018c
अहं दुरापो दुर्धर्षो दमनः पाकशासनिः 019a
तेन देवमनुष्येषु जिष्णुनामास्मि विश्रुतः 019c
कृष्ण इत्येव दशमं नाम चक्रे पिता मम 020a
कृष्णावदातस्य सतः प्रियत्वाद्बालकस्य वै 020c
वैशम्पायन उवाच || 021
ततः पार्थं स वैराटिरभ्यवादयदन्तिकात् | 021a
अहं भूमिञ्जयो नाम नाम्नाहमपि चोत्तरः || 021c
दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनञ्जय | 022a
लोहिताक्ष महाबाहो नागराजकरोपम | 022c
यदज्ञानादवोचं त्वां क्षन्तुमर्हसि तन्मम || 022e
यतस्त्वया कृतं पूर्वं विचित्रं कर्म दुष्करम् | 023a
अतो भयं व्यतीतं मे प्रीतिश्च परमा त्वयि|| 023c