वैशम्पायन उवाच || 001
तां शमीमुपसङ्गम्य पार्थो वैराटिमब्रवीत् | 001a
सुकुमारं समाज्ञातं सङ्ङ्ग्रामे नातिकोविदम् || 001c
समादिष्टो मया क्षिप्रं धनूंष्यवहरोत्तर | 002a
नेमानि हि त्वदीयानि सोढुं शक्ष्यन्ति मे बलम् || 002c
भारं वापि गुरुं हर्तुं कुञ्जरं वा प्रमर्दितुम् | 003a
मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः || 003c
तस्माद्भूमिञ्जयारोह शमीमेतां पलाशिनीम् | 004a
अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्युत || 004c
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा | 005a
ध्वजाः शराश्च शूराणां दिव्यानि कवचानि च || 005c
अत्र चैतन्महावीर्यं धनुः पार्थस्य गाण्डिवम् | 006a
एकं शतसहस्रेण सम्मितं राष्ट्रवर्धनम् || 006c
व्यायामसहमत्यर्थं तृणराजसमं महत् | 007a
सर्वायुधमहामात्रं शत्रुसम्बाधकारकम् || 007c
सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम् | 008a
अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम् | 008c
तादृशान्येव सर्वाणि बलवन्ति दृढानि च || 008e
उत्तर उवाच || 009
अस्मिन्वृक्षे किलोद्बद्धं शरीरमिति नः श्रुतम् | 009a
तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम् || 009c
नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना | 010a
महता राजपुत्रेण मन्त्रयज्ञविदा सता || 010c
स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम् | 011a
कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नडे || 011c
बृहन्नडोवाच || 012
व्यवहार्यश्च राजेन्द्र शुचिश्चैव भविष्यसि | 012a
धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते || 012c
दायादं मत्स्यराजस्य कुले जातं मनस्विनम् | 013a
कथं त्वा निन्दितं कर्म कारयेयं नृपात्मज || 013c
वैशम्पायन उवाच || 014
एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली | 014a
आरुरोह शमीवृक्षं वैराटिरवशस्तदा || 014c
तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनञ्जयः | 015a
परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुद || 015c
तथा सन्नहनान्येषां परिमुच्य समन्ततः | 016a
अपश्यद्गाण्डिवं तत्र चतुर्भिरपरैः सह || 016c
तेषां विमुच्यमानानां धनुषामर्कवर्चसाम् | 017a
विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव || 017c
स तेषां रूपमालोक्य भोगिनामिव जृम्भताम् | 018a
हृष्टरोमा भयोद्विग्नः क्षणेन समपद्यत || 018c
संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च | 019a
वैराटिरर्जुनं राजन्निदं वचनमब्रवीत् || 019c
उत्तर उवाच || 020
बिन्दवो जातरूपस्य शतं यस्मिन्निपातिताः | 020a
सहस्रकोटि सौवर्णाः कस्यैतद्धनुरुत्तमम् || 020c
वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः | 021a
सुपार्श्वं सुग्रहं चैव कस्यैतद्धनुरुत्तमम् || 021c
तपनीयस्य शुद्धस्य षष्टिर्यस्येन्द्रगोपकाः | 022a
पृष्ठे विभक्ताः शोभन्ते कस्यैतद्धनुरुत्तमम् || 022c
सूर्या यत्र च सौवर्णास्त्रयो भासन्ति दंशिताः | 023a
तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम् || 023c
शालभा यत्र सौवर्णास्तपनीयविचित्रिताः | 024a
सुवर्णमणिचित्रं च कस्यैतद्धनुरुत्तमम् || 024c
इमे च कस्य नाराचाः सहस्रा लोमवाहिनः | 025a
समन्तात्कलधौताग्रा उपासङ्गे हिरण्मये || 025c
विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः | 026a
हारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः || 026c
कस्यायमसितावापः पञ्चशार्दूललक्षणः | 027a
वराहकर्णव्यामिश्रः शरान्धारयते दश || 027c
कस्येमे पृथवो दीर्घाः सर्वपारशवाः शराः | 028a
शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः || 028c
कस्येमे शुकपत्राभैः पूर्वैरर्धैः सुवाससः | 029a
उत्तरैरायसैः पीतैर्हेमपुङ्खैः शिलाशितैः || 029c
कस्यायं सायको दीर्घः शिलीपृष्ठः शिलीमुखः | 030a
वैयाघ्रकोशे निहितो हेमचित्रत्सरुर्महान् || 030c
सुफलश्चित्रकोशश्च किङ्किणीसायको महान् | 031a
कस्य हेमत्सरुर्दिव्यः खड्गः परमनिर्व्रणः || 031c
कस्यायं विमलः खड्गो गव्ये कोशे समर्पितः | 032a
हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः || 032c
कस्य पाञ्चनखे कोशे सायको हेमविग्रहः | 033a
प्रमाणरूपसम्पन्नः पीत आकाशसन्निभः || 033c
कस्य हेममये कोशे सुतप्ते पावकप्रभे | 034a
निस्त्रिंशोऽयं गुरुः पीतः सैक्यः परमनिर्व्रणः || 034c
निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नडे | 035a
विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत् || 035c
बृहन्नडोवाच || 036
यन्मां पूर्वमिहापृच्छः शत्रुसेनानिबर्हणम् | 036a
गाण्डीवमेतत्पार्थस्य लोकेषु विदितं धनुः || 036c
सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम् | 037a
एतत्तदर्जुनस्यासीद्गाण्डीवं परमायुधम् || 037c
यत्तच्छतसहस्रेण सम्मितं राष्ट्रवर्धनम् | 038a
येन देवान्मनुष्यांश्च पार्थो विषहते मृधे || 038c
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः | 039a
एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत् || 039c
ततोऽनन्तरमेवाथ प्रजापतिरधारयत् | 040a
त्रीणि पञ्चशतं चैव शक्रोऽशीति च पञ्च च || 040c
सोमः पञ्चशतं राजा तथैव वरुणः शतम् | 041a
पार्थः पञ्च च षष्टिं च वर्षाणि श्वेतवाहनः || 041c
महावीर्यं महद्दिव्यमेतत्तद्धनुरुत्तमम् | 042a
पूजितं सुरमर्त्येषु बिभर्ति परमं वपुः || 042c
सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः | 043a
येन पार्थोऽजयत्कृत्स्नां दिशं प्राचीं परन्तपः || 043c
इन्द्रगोपकचित्रं च यदेतच्चारुविग्रहम् | 044a
राज्ञो युधिष्ठिरस्यैतद्वैराटे धनुरुत्तमम् || 044c
सूर्या यस्मिंस्तु सौवर्णाः प्रभासन्ते प्रभासिनः | 045a
तेजसा प्रज्वलन्तो वै नकुलस्यैतदायुधम् || 045c
शलभा यत्र सौवर्णास्तपनीयविचित्रिताः | 046a
एतन्माद्रीसुतस्यापि सहदेवस्य कार्मुकम् || 046c
ये त्विमे क्षुरसङ्काशाः सहस्रा लोमवाहिनः | 047a
एतेऽर्जुनस्य वैराटे शराः सर्पविषोपमाः || 047c
एते ज्वलन्तः सङ्ग्रामे तेजसा शीघ्रगामिनः | 048a
भवन्ति वीरस्याक्षय्या व्यूहतः समरे रिपून् || 048c
ये चेमे पृथवो दीर्घाश्चन्द्रबिम्बार्धदर्शनाः | 049a
एते भीमस्य निशिता रिपुक्षयकराः शराः || 049c
हारिद्रवर्णा ये त्वेते हेमपुङ्खाः शिलाशिताः | 050a
नकुलस्य कलापोऽयं पञ्चशार्दूललक्षणः || 050c
येनासौ व्यजयत्कृत्स्नां प्रतीचीं दिशमाहवे | 051a
कलापो ह्येष तस्यासीन्माद्रीपुत्रस्य धीमतः || 051c
ये त्विमे भास्कराकाराः सर्वपारशवाः शराः | 052a
एते चित्राः क्रियोपेताः सहदेवस्य धीमतः || 052c
ये त्विमे निशिताः पीताः पृथवो दीर्घवाससः | 053a
हेमपुङ्खास्त्रिपर्वाणो राज्ञ एते महाशराः || 053c
यस्त्वयं सायको दीर्घः शिलीपृष्ठः शिलीमुखः | 054a
अर्जुनस्यैष सङ्ग्रामे गुरुभारसहो दृढः || 054c
वैयाघ्रकोशस्तु महान्भीमसेनस्य सायकः | 055a
गुरुभारसहो दिव्यः शात्रवाणां भयङ्करः || 055c
सुफलश्चित्रकोशश्च हेमत्सरुरनुत्तमः | 056a
निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः || 056c
यस्तु पाञ्चनखे कोशे निहितश्चित्रसेवने | 057a
नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः || 057c
यस्त्वयं विमलः खड्गो गव्ये कोशे समर्पितः | 058a
सहदेवस्य विद्ध्येनं सर्वभारसहं दृढम् || 058c