वैशम्पायन उवाच || 001
तं दृष्ट्वा क्लीबवेषेण रथस्थं नरपुङ्गवम्| 001a
शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम् || 001c
भीष्मद्रोणमुखास्तत्र कुरूणां रथसत्तमाः | 002a
वित्रस्तमनसः सर्वे धनञ्जयकृताद्भयात् || 002c
तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान् | 003a
गुरुः शस्त्रभृतां श्रेष्ठो भारद्वाजोऽभ्यभाषत || 003c
चलाश्च वाताः संवान्ति रूक्षाः परुषनिःस्वनाः | 004a
भस्मवर्णप्रकाशेन तमसा संवृतं नभः || 004c
रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः | 005a
निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च || 005c
शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः | 006a
हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः || 006c
यादृशान्यत्र रूपाणि सन्दृश्यन्ते बहून्यपि | 007a
यत्ता भवन्तस्तिष्ठन्तु स्याद्युद्धं समुपस्थितम् || 007c
रक्षध्वमपि चात्मानं व्यूहध्वं वाहिनीमपि | 008a
वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम् || 008c
एष वीरो महेष्वासः सर्वशस्त्रभृतां वरः | 009a
आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः || 009c
स एष पार्थो विक्रान्तः सव्यसाची परन्तपः | 010a
नायुद्धेन निवर्तेत सर्वैरपि मरुद्गणैः || 010c
क्लेशितश्च वने शूरो वासवेन च शिक्षितः | 011a
अमर्षवशमापन्नो योत्स्यते नात्र संशयः || 011c
नेहास्य प्रतियोद्धारमहं पश्यामि कौरवाः | 012a
महादेवोऽपि पार्थेन श्रूयते युधि तोषितः || 012c
कर्ण उवाच || 013
सदा भवान्फल्गुनस्य गुणैरस्मान्विकत्थसे | 013a
न चार्जुनः कला पूर्णा मम दुर्योधनस्य वा || 013c
दुर्योधन उवाच || 014
यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम | 014a
ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यान्हि वत्सरान् || 014c
अथैष कश्चिदेवान्यः क्लीबवेषेण मानवः | 015a
शरैरेनं सुनिशितैः पातयिष्यामि भूतले || 015c
वैशम्पायन उवाच || 016
तस्मिन्ब्रुवति तद्वाक्यं धार्तराष्ट्रे परन्तपे | 016a
भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन् || 016c