वैशम्पायन उवाच || 001
स राजधान्या निर्याय वैराटिः पृथिवीञ्जयः | 001a
प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः || 001c
समवेतान्कुरून्यावज्जिगीषूनवजित्य वै | 002a
गाश्चैषां क्षिप्रमादाय पुनरायामि स्वं पुरम् || 002c
ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः | 003a
ते हया नरसिंहेन चोदिता वातरंहसः | 003c
आलिखन्त इवाकाशमूहुः काञ्चनमालिनः || 003e
नातिदूरमथो यात्वा मत्स्यपुत्रधनञ्जयौ | 004a
अवेक्षेताममित्रघ्नौ कुरूणां बलिनां बलम् | 004c
श्मशानमभितो गत्वा आससाद कुरूनथ || 004e
तदनीकं महत्तेषां विबभौ सागरस्वनम् | 005a
सर्पमाणमिवाकाशे वनं बहुलपादपम् || 005c
ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता | 006a
दृष्टिप्रणाशो भूतानां दिवस्पृङ्नरसत्तम || 006c
तदनीकं महद्दृष्ट्वा गजाश्वरथसङ्कुलम् | 007a
कर्णदुर्योधनकृपैर्गुप्तं शान्तनवेन च || 007c
द्रोणेन च सपुत्रेण महेष्वासेन धीमता | 008a
हृष्टरोमा भयोद्विग्नः पार्थं वैराटिरब्रवीत् || 008c
नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे | 009a
बहुप्रवीरमत्युग्रं देवैरपि दुरासदम् || 009c
प्रतियोद्धुं न शक्ष्यामि कुरुसैन्यमनन्तकम् || 009e
नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम् | 010a
रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् | 010c
दृष्ट्वैव हि परानाजावात्मा प्रव्यथतीव मे || 010e
यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः | 011a
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः || 011c
दुर्योधनस्तथा वीरो राजा च रथिनां वरः | 012a
द्युतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः || 012c
दृष्ट्वैव हि कुरूनेतान्व्यूढानीकान्प्रहारिणः | 013a
हृषितानि च रोमाणि कश्मलं चागतं मम || 013c
वैशम्पायन उवाच || 014
अवियातो वियातस्य मौर्ख्याद्धूर्तस्य पश्यतः 014a
परिदेवयते मन्दः सकाशे सव्यसाचिनः || 014c
त्रिगर्तान्मे पिता यातः शून्ये सम्प्रणिधाय माम् | 015a
सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः 015c
सोऽहमेको बहून्बालः कृतास्त्रानकृतश्रमः | 016a
प्रतियोद्धुं न शक्ष्यामि निवर्तस्व बृहन्नडे || 016c
अर्जुन उवाच || 017
भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः | 017a
न च तावत्कृतं किञ्चित्परैः कर्म रणाजिरे || 017c
स्वयमेव च मामात्थ वह मां कौरवान्प्रति | 018a
सोऽहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः || 018c
मध्यमामिषगृध्राणां कुरूणामाततायिनाम् | 019a
नेष्यामि त्वां महाबाहो पृथिव्यामपि युध्यताम् || 019c
तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च | 020a
कत्थमानोऽभिनिर्याय किमर्थं न युयुत्ससे || 020c
न चेद्विजित्य गास्तास्त्वं गृहान्वै प्रतियास्यसि | 021a
प्रहसिष्यन्ति वीर त्वां नरा नार्यश्च सङ्गताः || 021c
अहमप्यत्र सैरन्ध्र्या स्तुतः सारथ्यकर्मणि | 022a
न हि शक्ष्याम्यनिर्जित्य गाः प्रयातुं पुरं प्रति || 022c
स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन तेन च | 023a
कथं न युध्येयमहं कुरून्सर्वान्स्थिरो भव || 023c
उत्तर उवाच || 024
कामं हरन्तु मत्स्यानां भूयांसं कुरवो धनम् | 024a
प्रहसन्तु च मां नार्यो नरा वापि बृहन्नडे || 024c
वैशम्पायन उवाच || 025
इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली | 025a
त्यक्त्वा मानं स मन्दात्मा विसृज्य सशरं धनुः || 025c
बृहन्नडोवाच || 026
नैष पूर्वैः स्मृतो धर्मः क्षत्रियस्य पलायनम् | 026a
श्रेयस्ते मरणं युद्धे न भीतस्य पलायनम् || 026c
वैशम्पायन उवाच || 027
एवमुक्त्वा तु कौन्तेयः सोऽवप्लुत्य रथोत्तमात् | 027a
तमन्वधावद्धावन्तं राजपुत्रं धनञ्जयः | 027c
दीर्घां वेणीं विधुन्वानः साधु रक्ते च वाससी || 027e
विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा | 028a
सैनिकाः प्राहसन्केचित्तथारूपमवेक्ष्य तम् || 028c
तं शीघ्रमभिधावन्तं सम्प्रेक्ष्य कुरवोऽब्रुवन् | 029a
क एष वेषप्रच्छन्नो भस्मनेव हुताशनः || 029c
किञ्चिदस्य यथा पुंसः किञ्चिदस्य यथा स्त्रियः | 030a
सारूप्यमर्जुनस्येव क्लीबरूपं बिभर्ति च || 030c
तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ | 031a
तद्वदेवास्य विक्रान्तं नायमन्यो धनञ्जयात् || 031c
अमरेष्विव देवेन्द्रो मानुषेषु धनञ्जयः | 032a
एकः कोऽस्मानुपायायादन्यो लोके धनञ्जयात् || 032c
एकः पुत्रो विराटस्य शून्ये सन्निहितः पुरे | 033a
स एष किल निर्यातो बालभावान्न पौरुषात् || 033c
सत्रेण नूनं छन्नं हि चरन्तं पार्थमर्जुनम् | 034a
उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः || 034c
स नो मन्ये ध्वजान्दृष्ट्वा भीत एष पलायति | 035a
तं नूनमेष धावन्तं जिघृक्षति धनञ्जयः || 035c
इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक् | 036a
न च व्यवसितुं किञ्चिदुत्तरं शक्नुवन्ति ते | 036c
छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत || 036e
उत्तरं तु प्रधावन्तमनुद्रुत्य धनञ्जयः | 037a
गत्वा पदशतं तूर्णं केशपक्षे परामृशत् || 037c
सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत् | 038a
बहुलं कृपणं चैव विराटस्य सुतस्तदा || 038c
शातकुम्भस्य शुद्धस्य शतं निष्कान्ददामि ते | 039a
मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान् || 039c
हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रजैः | 040a
मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नडे || 040c
वैशम्पायन उवाच || 041
एवमादीनि वाक्यानि विलपन्तमचेतसम् | 041a
प्रहस्य पुरुषव्याघ्रो रथस्यान्तिकमानयत् || 041c
अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम् | 042a
यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन | 042c
एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः || 042e
प्रयाह्येतद्रथानीकं मद्बाहुबलरक्षितः | 043a
अप्रधृष्यतमं घोरं गुप्तं वीरैर्महारथैः || 043c
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परन्तप | 044a
अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् || 044c
प्रविश्यैतद्रथानीकमप्रधृष्यं दुरासदम् | 045a
यन्ता भूस्त्वं नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह || 045c
एवं ब्रुवाणो बीभत्सुर्वैराटिमपराजितः | 046a
समाश्वास्य मुहूर्तं तमुत्तरं भरतर्षभ || 046c
तत एनं विचेष्टन्तमकामं भयपीडितम् | 047a
रथमारोपयामास पार्थः प्रहरतां वरः || 047c