वैशम्पायन उवाच || 01
स तां दृष्ट्वा विशालाक्षीं राजपुत्रीं सखीं सखा | 01a
प्रहसन्नब्रवीद्राजन्कुत्रागमनमित्युत || 01c
तमब्रवीद्राजपुत्री समुपेत्य नरर्षभम् | 02a
प्रणयं भावयन्ती स्म सखीमध्य इदं वचः || 02c
गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नडे | 03a
तान्विजेतुं मम भ्राता प्रयास्यति धनुर्धरः || 03c
नचिरं च हतस्तस्य सङ्ग्रामे रथसारथिः | 04a
तेन नास्ति समः सूतो योऽस्य सारथ्यमाचरेत् || 04c
तस्मै प्रयतमानाय सारथ्यर्थं बृहन्नडे | 05a
आचचक्षे हयज्ञाने सैरन्ध्री कौशलं तव || 05c
सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नडे | 06a
पुरा दूरतरं गावो ह्रियन्ते कुरुभिर्हि नः || 06c
अथैतद्वचनं मेऽद्य नियुक्ता न करिष्यसि | 07a
प्रणयादुच्यमाना त्वं परित्यक्ष्यामि जीवितम् || 07c
एवमुक्तस्तु सुश्रोण्या तया सख्या परन्तपः | 08a
जगाम राजपुत्रस्य सकाशममितौजसः || 08c
तं सा व्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम् | 09a
अन्वगच्छद्विशालाक्षी शिशुर्गजवधूरिव || 09c
दूरादेव तु तं प्रेक्ष्य राजपुत्रोऽभ्यभाषत | 10a
त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् || 10c
पृथिवीमजयत्कृत्स्नां कुन्तीपुत्रो धनञ्जयः | 11a
सैरन्ध्री त्वां समाचष्ट सा हि जानाति पाण्डवान् || 11c
संयच्छ मामकानश्वांस्तथैव त्वं बृहन्नडे | 12a
कुरुभिर्योत्स्यमानस्य गोधनानि परीप्सतः || 12c
अर्जुनस्य किलासीस्त्वं सारथिर्दयितः पुरा | 13a
त्वयाजयत्सहायेन पृथिवीं पाण्डवर्षभः || 13c
एवमुक्ता प्रत्युवाच राजपुत्रं बृहन्नडा | 14a
का शक्तिर्मम सारथ्यं कर्तुं सङ्ग्राममूर्धनि || 14c
गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्विधम् | 15a
तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मयि || 15c
उत्तर उवाच || 16
बृहन्नडे गायनो वा नर्तनो वा पुनर्भव | 16a
क्षिप्रं मे रथमास्थाय निगृह्णीष्व हयोत्तमान् || 16c
वैशम्पायन उवाच || 17
स तत्र नर्मसंयुक्तमकरोत्पाण्डवो बहु | 17a
उत्तरायाः प्रमुखतः सर्वं जानन्नरिन्दम || 17c
ऊर्ध्वमुत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत | 18a
कुमार्यस्तत्र तं दृष्ट्वा प्राहसन्पृथुलोचनाः || 18c
स तु दृष्ट्वा विमुह्यन्तं स्वयमेवोत्तरस्ततः | 19a
कवचेन महार्हेण समनह्यद्बृहन्नडाम् || 19c
स बिभ्रत्कवचं चाग्र्यं स्वयमप्यंशुमत्प्रभम् | 20a
ध्वजं च सिंहमुच्छ्रित्य सारथ्ये समकल्पयत् || 20c
धनूंषि च महार्हाणि बाणांश्च रुचिरान्बहून् | 21a
आदाय प्रययौ वीरः स बृहन्नडसारथिः || 21c
अथोत्तरा च कन्याश्च सख्यस्तामब्रुवंस्तदा | 22a
बृहन्नडे आनयेथा वासांसि रुचिराणि नः || 22c
पाञ्चालिकार्थं सूक्ष्माणि चित्राणि विविधानि च | 23a
विजित्य सङ्ग्रामगतान्भीष्मद्रोणमुखान्कुरून् || 23c
अथ ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः | 24a
प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिःस्वनः || 24c
यद्युत्तरोऽयं सङ्ग्रामे विजेष्यति महारथान् | 25a
अथाहरिष्ये वासांसि दिव्यानि रुचिराणि च || 25c
एवमुक्त्वा तु बीभत्सुस्ततः प्राचोदयद्धयान् | 26a
कुरूनभिमुखाञ्शूरो नानाध्वजपताकिनः || 26c