001 वैशम्पायन उवाच || 001a याते त्रिगर्तं मत्स्ये तु पशूंस्तान्स्वान्परीप्सति | 001c दुर्योधनः सहामात्यो विराटमुपयादथ || 002a भीष्मो द्रोणश्च कर्णश्च कृपश्च परमास्त्रवित् | 002c द्रौणिश्च सौबलश्चैव तथा दुःशासनः प्रभुः || 003a विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् | 003c दुर्मुखो दुःसहश्चैव ये चैवान्ये महारथाः || 004a एते मत्स्यानुपागम्य विराटस्य महीपतेः | 004c घोषान्विद्राव्य तरसा गोधनं जह्रुरोजसा || 005a षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते | 005c महता रथवंशेन परिवार्य समन्ततः || 006a गोपालानां तु घोषेषु हन्यतां तैर्महारथैः | 006c आरावः सुमहानासीत्सम्प्रहारे भयङ्करे || 007a गवाध्यक्षस्तु सन्त्रस्तो रथमास्थाय सत्वरः | 007c जगाम नगरायैव परिक्रोशंस्तदार्तवत् || 008a स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः | 008c अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह || 009a दृष्ट्वा भूमिञ्जयं नाम पुत्रं मत्स्यस्य मानिनम् | 009c तस्मै तत्सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् || 010a षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते | 010c तद्विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धनम् || 011a राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् | 011c त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् || 012a त्वया परिषदो मध्ये श्लाघते स नराधिपः | 012c पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः || 013a इष्वस्त्रे निपुणो योधः सदा वीरश्च मे सुतः | 013c तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् || 014a आवर्तय कुरूञ्जित्वा पशून्पशुमतां वर | 014c निर्दहैषामनीकानि भीमेन शरतेजसा || 015a धनुश्च्युतै रुक्मपुङ्खैः शरैः सन्नतपर्वभिः | 015c द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः || 016a पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् | 016c शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय || 017a श्वेता रजतसङ्काशा रथे युज्यन्तु ते हयाः | 017c ध्वजं च सिंहं सौवर्णमुच्छ्रयन्तु तवाभिभोः || 018a रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया | 018c छादयन्तु शराः सूर्यं राज्ञामायुर्निरोधिनः || 019a रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् | 019c यशो महदवाप्य त्वं प्रविशेदं पुरं पुनः || 020a त्वं हि राष्ट्रस्य परमा गतिर्मत्स्यपतेः सुतः | 020c गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः || 021a स्त्रीमध्य उक्तस्तेनासौ तद्वाक्यमभयङ्करम् | 021c अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् ||