001 वैशम्पायन उवाच || 001a तमसाभिप्लुते लोके रजसा चैव भारत | 001c व्यतिष्ठन्वै मुहूर्तं तु व्यूढानीकाः प्रहारिणः || 002a ततोऽन्धकारं प्रणुदन्नुदतिष्ठत चन्द्रमाः | 002c कुर्वाणो विमलां रात्रिं नन्दयन्क्षत्रियान्युधि || 003a ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत | 003c घोररूपं ततस्ते स्म नावेक्षन्त परस्परम् || 004a ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा | 004c अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः || 005a ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ | 005c गदापाणी सुसंरब्धौ समभ्यद्रवतां हयान् || 006a तथैव तेषां तु बलानि तानि क्रुद्धान्यथान्योन्यमभिद्रवन्ति | 006c गदासिखड्गैश्च परश्वधैश्च प्रासैश्च तीक्ष्णाग्रसुपीतधारैः || 007a बलं तु मत्स्यस्य बलेन राजा सर्वं त्रिगर्ताधिपतिः सुशर्मा | 007c प्रमथ्य जित्वा च प्रसह्य मत्स्यं विराटमोजस्विनमभ्यधावत् || 008a तौ निहत्य पृथग्धुर्यावुभौ च पार्ष्णिसारथी | 008c विरथं मत्स्यराजानं जीवग्राहमगृह्णताम् || 009a तमुन्मथ्य सुशर्मा तु रुदतीं वधुकामिव | 009c स्यन्दनं स्वं समारोप्य प्रययौ शीघ्रवाहनः || 010a तस्मिन्गृहीते विरथे विराटे बलवत्तरे | 010c प्राद्रवन्त भयान्मत्स्यास्त्रिगर्तैरर्दिता भृशम् || 011a तेषु सन्त्रास्यमानेषु कुन्तीपुत्रो युधिष्ठिरः | 011c अभ्यभाषन्महाबाहुं भीमसेनमरिन्दमम् || 012a मत्स्यराजः परामृष्टस्त्रिगर्तेन सुशर्मणा | 012c तं मोक्षय महाबाहो न गच्छेद्द्विषतां वशम् || 013a उषिताः स्मः सुखं सर्वे सर्वकामैः सुपूजिताः | 013c भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः || 014 भीमसेन उवाच || 014a अहमेनं परित्रास्ये शासनात्तव पार्थिव | 014c पश्य मे सुमहत्कर्म युध्यतः सह शत्रुभिः || 015a स्वबाहुबलमाश्रित्य तिष्ठ त्वं भ्रातृभिः सह | 015c एकान्तमाश्रितो राजन्पश्य मेऽद्य पराक्रमम् || 016a सुस्कन्धोऽयं महावृक्षो गदारूप इव स्थितः | 016c एनमेव समारुज्य द्रावयिष्यामि शात्रवान् || 017 वैशम्पायन उवाच || 017a तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम् | 017c अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः || 018a मा भीम साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः | 018c मा त्वा वृक्षेण कर्माणि कुर्वाणमतिमानुषम् | 018e जनाः समवबुध्येरन्भीमोऽयमिति भारत || 019a अन्यदेवायुधं किञ्चित्प्रतिपद्यस्व मानुषम् | 019c चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम् || 020a यदेव मानुषं भीम भवेदन्यैरलक्षितम् | 020c तदेवायुधमादाय मोक्षयाशु महीपतिम् || 021a यमौ च चक्ररक्षौ ते भवितारौ महाबलौ | 021c व्यूहतः समरे तात मत्स्यराजं परीप्सतः || 022a ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन् | 022c दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः || 023a तान्निवृत्तरथान्दृष्ट्वा पाण्डवान्सा महाचमूः | 023c वैराटी परमक्रुद्धा युयुधे परमाद्भुतम् || 024a सहस्रं न्यवधीत्तत्र कुन्तीपुत्रो युधिष्ठिरः | 024c भीमः सप्तशतान्योधान्परलोकमदर्शयत् | 024e नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः || 025a शतानि त्रीणि शूराणां सहदेवः प्रतापवान् | 025c युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः | 025e भित्त्वा तां महतीं सेनां त्रिगर्तानां नरर्षभ || 026a ततो युधिष्ठिरो राजा त्वरमाणो महारथः | 026c अभिद्रुत्य सुशर्माणं शरैरभ्यतुदद्भृशम् || 027a सुशर्मापि सुसङ्क्रुद्धस्त्वरमाणो युधिष्ठिरम् | 027c अविध्यन्नवभिर्बाणैश्चतुर्भिश्चतुरो हयान् || 028a ततो राजन्नाशुकारी कुन्तीपुत्रो वृकोदरः | 028c समासाद्य सुशर्माणमश्वानस्य व्यपोथयत् || 029a पृष्ठगोपौ च तस्याथ हत्वा परमसायकैः | 029c अथास्य सारथिं क्रुद्धो रथोपस्थादपाहरत् || 030a चक्ररक्षश्च शूरश्च शोणाश्वो नाम विश्रुतः | 030c स भयाद्द्वैरथं दृष्ट्वा त्रैगर्तं प्राजहत्तदा || 031a ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः | 031c गदामस्य परामृश्य तमेवाजघ्निवान्बली | 031e स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा || 032a भीमस्तु भीमसङ्काशो रथात्प्रस्कन्द्य कुण्डली | 032c त्रिगर्तराजमादत्त सिंहः क्षुद्रमृगं यथा || 033a तस्मिन्गृहीते विरथे त्रिगर्तानां महारथे | 033c अभज्यत बलं सर्वं त्रैगर्तं तद्भयातुरम् || 034a निवर्त्य गास्ततः सर्वाः पाण्डुपुत्रा महाबलाः | 034c अवजित्य सुशर्माणं धनं चादाय सर्वशः || 035a स्वबाहुबलसम्पन्ना ह्रीनिषेधा यतव्रताः | 035c सङ्ग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् || 036a ततो विराटः कौन्तेयानतिमानुषविक्रमान् | 036c अर्चयामास वित्तेन मानेन च महारथान् || 037 विराट उवाच || 037a यथैव मम रत्नानि युष्माकं तानि वै तथा | 037c कार्यं कुरुत तैः सर्वे यथाकामं यथासुखम् || 038a ददान्यलङ्कृताः कन्या वसूनि विविधानि च | 038c मनसश्चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः || 039a युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह | 039c तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि || 040 वैशम्पायन उवाच || 040a तथाभिवादिनं मत्स्यं कौरवेयाः पृथक्पृथक् | 040c ऊचुः प्राञ्जलयः सर्वे युधिष्ठिरपुरोगमाः || 041a प्रतिनन्दाम ते वाक्यं सर्वं चैव विशां पते | 041c एतेनैव प्रतीताः स्मो यत्त्वं मुक्तोऽद्य शत्रुभिः || 042a अथाब्रवीत्प्रीतमना मत्स्यराजो युधिष्ठिरम् | 042c पुनरेव महाबाहुर्विराटो राजसत्तमः | 042e एहि त्वामभिषेक्ष्यामि मत्स्यराजोऽस्तु नो भवान् || 043a मनसश्चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण | 043c तत्तेऽहं सम्प्रदास्यामि सर्वमर्हति नो भवान् || 044a रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा | 044c वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोऽस्तु ते || 045a त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च | 045c यतश्च जातः संरम्भः स च शत्रुर्वशं गतः || 046a ततो युधिष्ठिरो मत्स्यं पुनरेवाभ्यभाषत | 046c प्रतिनन्दामि ते वाक्यं मनोज्ञं मत्स्य भाषसे || 047a आनृशंस्यपरो नित्यं सुसुखः सततं भव | 047c गच्छन्तु दूतास्त्वरितं नगरं तव पार्थिव | 047e सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् || 048a ततस्तद्वचनान्मत्स्यो दूतान्राजा समादिशत् | 048c आचक्षध्वं पुरं गत्वा सङ्ग्रामे विजयं मम || 049a कुमाराः समलङ्कृत्य पर्यागच्छन्तु मे पुरात् | 049c वादित्राणि च सर्वाणि गणिकाश्च स्वलङ्कृताः || 050a ते गत्वा केवलां रात्रिमथ सूर्योदयं प्रति | 050c विराटस्य पुराभ्याशे दूता जयमघोषयन् ||