001 वैशम्पायन उवाच || 001a निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः | 001c त्रिगर्तानस्पृशन्मत्स्याः सूर्ये परिणते सति || 002a ते त्रिगर्ताश्च मत्स्याश्च संरब्धा युद्धदुर्मदाः | 002c अन्योन्यमभिगर्जन्तो गोषु गृद्धा महाबलाः || 003a भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः | 003c ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः || 004a तेषां समागमो घोरस्तुमुलो लोमहर्षणः | 004c देवासुरसमो राजन्नासीत्सूर्ये विलम्बति || 005a उदतिष्ठद्रजो भौमं न प्रज्ञायत किञ्चन | 005c पक्षिणश्चापतन्भूमौ सैन्येन रजसावृताः || 006a इषुभिर्व्यतिसंयद्भिरादित्योऽन्तरधीयत | 006c खद्योतैरिव संयुक्तमन्तरिक्षं व्यराजत || 007a रुक्मपृष्ठानि चापानि व्यतिषक्तानि धन्विनाम् | 007c पततां लोकवीराणां सव्यदक्षिणमस्यताम् || 008a रथा रथैः समाजग्मुः पादातैश्च पदातयः | 008c सादिभिः सादिनश्चैव गजैश्चापि महागजाः || 009a असिभिः पट्टिशैः प्रासैः शक्तिभिस्तोमरैरपि | 009c संरब्धाः समरे राजन्निजघ्नुरितरेतरम् || 010a निघ्नन्तः समरेऽन्योन्यं शूराः परिघबाहवः | 010c न शेकुरभिसंरब्धाः शूरान्कर्तुं पराङ्मुखान् || 011a कॢप्तोत्तरोष्ठं सुनसं कॢप्तकेशमलङ्कृतम् | 011c अदृश्यत शिरश्छिन्नं रजोध्वस्तं सकुण्डलम् || 012a अदृश्यंस्तत्र गात्राणि शरैश्छिन्नानि भागशः | 012c शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे || 013a नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः | 013c आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः || 014a उपशाम्यद्रजो भौमं रुधिरेण प्रसर्पता | 014c कश्मलं प्राविशद्घोरं निर्मर्यादमवर्तत || 015a शतानीकः शतं हत्वा विशालाक्षश्चतुःशतम् | 015c प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ | 015e आर्च्छेतां बहुसंरब्धौ केशाकेशि नखानखि || 016a लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम् | 016c जग्मतुः सूर्यदत्तश्च मदिराश्वश्च पृष्ठतः || 017a विराटस्तत्र सङ्ग्रामे हत्वा पञ्चशतान्रथान् | 017c हयानां च शतान्यत्र हत्वा पञ्च महारथान् || 018a चरन्स विविधान्मार्गान्रथेषु रथयूथपः | 018c त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे || 019a तौ व्यावहरतां तत्र महात्मानौ महाबलौ | 019c अन्योन्यमभिगर्जन्तौ गोष्ठे गोवृषभाविव || 020a ततो रथाभ्यां रथिनौ व्यतियाय समन्ततः | 020c शरान्व्यसृजतां शीघ्रं तोयधारा घनाविव || 021a अन्योन्यं चातिसंरब्धौ विचेरतुरमर्षणौ | 021c कृतास्त्रौ निशितैर्बाणैरसिशक्तिगदाभृतौ || 022a ततो राजा सुशर्माणं विव्याध दशभिः शरैः | 022c पञ्चभिः पञ्चभिश्चास्य विव्याध चतुरो हयान् || 023a तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः | 023c पञ्चाशता शितैर्बाणैर्विव्याध परमास्त्रवित् || 024a ततः सैन्यं समावृत्य मत्स्यराजसुशर्मणोः | 024c नाभ्यजानंस्तदान्योन्यं प्रदोषे रजसावृते ||