001 वैशम्पायन उवाच || 001a ततस्तेषां महाराज तत्रैवामिततेजसाम् | 001c छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् || 002a व्यतीतः समयः सम्यग्वसतां वै पुरोत्तमे | 002c कुर्वतां तस्य कर्माणि विराटस्य महीपतेः || 003a ततस्त्रयोदशस्यान्ते तस्य वर्षस्य भारत | 003c सुशर्मणा गृहीतं तु गोधनं तरसा बहु || 004a ततो जवेन महता गोपाः पुरमथाव्रजत् | 004c अपश्यन्मत्स्यराजं च रथात्प्रस्कन्द्य कुण्डली || 005a शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः | 005c सद्भिश्च मन्त्रिभिः सार्धं पाण्डवैश्च नरर्षभैः || 006a तं सभायां महाराजमासीनं राष्ट्रवर्धनम्| 006c सोऽब्रवीदुपसङ्गम्य विराटं प्रणतस्तदा || 007a अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान् | 007c गवां शतसहस्राणि त्रिगर्ताः कालयन्ति ते | 007e तान्परीप्स मनुष्येन्द्र मा नेशुः पशवस्तव || 008a तच्छ्रुत्वा नृपतिः सेनां मत्स्यानां समयोजयत् | 008c रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् || 009a राजानो राजपुत्राश्च तनुत्राण्यत्र भेजिरे | 009c भानुमन्ति विचित्राणि सूपसेव्यानि भागशः || 010a सवज्रायसगर्भं तु कवचं तप्तकाञ्चनम् | 010c विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत् || 011a सर्वपारसवं वर्म कल्याणपटलं दृढम् | 011c शतानीकादवरजो मदिराश्वोऽभ्यहारयत् || 012a शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत् | 012c अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् || 013a उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च | 013c सुवर्णपृष्ठं सूर्याभं सूर्यदत्तोऽभ्यहारयत् || 014a दृढमायसगर्भं तु श्वेतं वर्म शताक्षिमत् | 014c विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् || 015a शतशश्च तनुत्राणि यथास्वानि महारथाः | 015c योत्स्यमानाभ्यनह्यन्त देवरूपाः प्रहारिणः || 016a सूपस्करेषु शुभ्रेषु महत्सु च महारथाः | 016c पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् || 017a सूर्यचन्द्रप्रतीकाशो रथे दिव्ये हिरण्मयः | 017c महानुभावो मत्स्यस्य ध्वज उच्छिश्रिये तदा || 018a अथान्यान्विविधाकारान्ध्वजान्हेमविभूषितान् | 018c यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् || 019a अथ मत्स्योऽब्रवीद्राजा शतानीकं जघन्यजम् | 019c कङ्कबल्लवगोपाला दामग्रन्थिश्च वीर्यवान् | 019e युध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः || 020a एतेषामपि दीयन्तां रथा ध्वजपताकिनः | 020c कवचानि विचित्राणि दृढानि च मृदूनि च | 020e प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च || 021a वीराङ्गरूपाः पुरुषा नागराजकरोपमाः | 021c नेमे जातु न युध्येरन्निति मे धीयते मतिः || 022a एतच्छ्रुत्वा तु नृपतेर्वाक्यं त्वरितमानसः | 022c शतानीकस्तु पार्थेभ्यो रथान्राजन्समादिशत् | 022e सहदेवाय राज्ञे च भीमाय नकुलाय च || 023a तान्प्रहृष्टास्ततः सूता राजभक्तिपुरस्कृताः | 023c निर्दिष्टान्नरदेवेन रथाञ्शीघ्रमयोजयन् || 024a कवचानि विचित्राणि दृढानि च मृदूनि च | 024c विराटः प्रादिशद्यानि तेषामक्लिष्टकर्मणाम् | 024e तान्यामुच्य शरीरेषु दंशितास्ते परन्तपाः || 025a तरस्विनश्छन्नरूपाः सर्वे युद्धविशारदाः | 025c विराटमन्वयुः पश्चात्सहिताः कुरुपुङ्गवाः | 025e चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः || 026a भीमाश्च मत्तमातङ्गाः प्रभिन्नकरटामुखाः | 026c क्षरन्त इव जीमूताः सुदन्ताः षष्टिहायनाः || 027a स्वारूढा युद्धकुशलैः शिक्षितैर्हस्तिसादिभिः | 027c राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः || 028a विशारदानां वश्यानां हृष्टानां चानुयायिनाम् | 028c अष्टौ रथसहस्राणि दश नागशतानि च | 028e षष्टिश्चाश्वसहस्राणि मत्स्यानामभिनिर्ययुः || 029a तदनीकं विराटस्य शुशुभे भरतर्षभ | 029c सम्प्रयातं महाराज निनीषन्तं गवां पदम् || 030a तद्बलाग्र्यं विराटस्य सम्प्रस्थितमशोभत | 030c दृढायुधजनाकीर्णं गजाश्वरथसङ्कुलम् ||