001 वैशम्पायन उवाच || 001a अथ राजा त्रिगर्तानां सुशर्मा रथयूथपः | 001c प्राप्तकालमिदं वाक्यमुवाच त्वरितो भृशम् || 002a असकृन्निकृतः पूर्वं मत्स्यैः साल्वेयकैः सह | 002c सूतेन चैव मत्स्यस्य कीचकेन पुनः पुनः || 003a बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो | 003c स कर्णमभ्युदीक्ष्याथ दुर्योधनमभाषत || 004a असकृन्मत्स्यराज्ञा मे राष्ट्रं बाधितमोजसा | 004c प्रणेता कीचकश्चास्य बलवानभवत्पुरा || 005a क्रूरोऽमर्षी स दुष्टात्मा भुवि प्रख्यातविक्रमः | 005c निहतस्तत्र गन्धर्वैः पापकर्मा नृशंसवान् || 006a तस्मिंश्च निहते राजन्हीनदर्पो निराश्रयः | 006c भविष्यति निरुत्साहो विराट इति मे मतिः || 007a तत्र यात्रा मम मता यदि ते रोचतेऽनघ | 007c कौरवाणां च सर्वेषां कर्णस्य च महात्मनः || 008a एतत्प्राप्तमहं मन्ये कार्यमात्ययिकं हितम् | 008c राष्ट्रं तस्याभियात्वाशु बहुधान्यसमाकुलम् || 009a आददामोऽस्य रत्नानि विविधानि वसूनि च | 009c ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः || 010a अथ वा गोसहस्राणि बहूनि च शुभानि च | 010c विविधानि हरिष्यामः प्रतिपीड्य पुरं बलात् || 011a कौरवैः सह सङ्गम्य त्रिगर्तैश्च विशां पते | 011c गास्तस्यापहरामाशु सह सर्वैः सुसंहताः || 012a सन्धिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम् | 012c हत्वा चास्य चमूं कृत्स्नां वशमन्वानयामहे || 013a तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम् | 013c भवतो बलवृद्धिश्च भविष्यति न संशयः || 014a तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् | 014c सूक्तं सुशर्मणा वाक्यं प्राप्तकालं हितं च नः || 015a तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीम् | 015c विभज्य चाप्यनीकानि यथा वा मन्यसेऽनघ || 016a प्रज्ञावान्कुरुवृद्धोऽयं सर्वेषां नः पितामहः | 016c आचार्यश्च तथा द्रोणः कृपः शारद्वतस्तथा || 017a मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम् | 017c सम्मन्त्र्य चाशु गच्छामः साधनार्थं महीपतेः || 018a किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः | 018c अत्यर्थं वा प्रनष्टास्ते प्राप्ता वापि यमक्षयम् || 019a यामो राजन्ननुद्विग्ना विराटविषयं वयम् | 019c आदास्यामो हि गास्तस्य विविधानि वसूनि च || 020a ततो दुर्योधनो राजा वाक्यमादाय तस्य तत् | 020c वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम् || 021a शासने नित्यसंयुक्तं दुःशासनमनन्तरम् | 021c सह वृद्धैस्तु सम्मन्त्र्य क्षिप्रं योजय वाहिनीम् || 022a यथोद्देशं च गच्छामः सहिताः सर्वकौरवैः | 022c सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः || 023a त्रिगर्तैः सहितो राजा समग्रबलवाहनः | 023c प्रागेव हि सुसंवीतो मत्स्यस्य विषयं प्रति || 024a जघन्यतो वयं तत्र यास्यामो दिवसान्तरम् | 024c विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः || 025a ते यात्वा सहसा तत्र विराटनगरं प्रति | 025c क्षिप्रं गोपान्समासाद्य गृह्णन्तु विपुलं धनम् || 026a गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च | 026c वयमपि निगृह्णीमो द्विधा कृत्वा वरूथिनीम् || 027a स स्म गत्वा यथोद्दिष्टां दिशं वह्नेर्महीपतिः | 027c आदत्त गाः सुशर्माथ घर्मपक्षस्य सप्तमीम् || 028a अपरं दिवसं सर्वे राजन्सम्भूय कौरवाः | 028c अष्टम्यां तान्यगृह्णन्त गोकुलानि सहस्रशः ||