001 वैशम्पायन उवाच || 001a ततः शारद्वतो वाक्यमित्युवाच कृपस्तदा | 001c युक्तं प्राप्तं च वृद्धेन पाण्डवान्प्रति भाषितम् || 002a धर्मार्थसहितं श्लक्ष्णं तत्त्वतश्च सहेतुमत् | 002c तत्रानुरूपं भीष्मेण ममाप्यत्र गिरं शृणु || 003a तेषां चैव गतिस्तीर्थैर्वासश्चैषां प्रचिन्त्यताम् | 003c नीतिर्विधीयतां चापि साम्प्रतं या हिता भवेत् || 004a नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता | 004c किं पुनः पाण्डवास्तात सर्वास्त्रकुशला रणे || 005a तस्मात्सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु | 005c गूढभावेषु छन्नेषु काले चोदयमागते || 006a स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः | 006c उदये पाण्डवानां च प्राप्ते काले न संशयः || 007a निवृत्तसमयाः पार्था महात्मानो महाबलाः | 007c महोत्साहा भविष्यन्ति पाण्डवा ह्यतितेजसः || 008a तस्माद्बलं च कोशं च नीतिश्चापि विधीयताम् | 008c यथा कालोदये प्राप्ते सम्यक्तैः सन्दधामहे || 009a तात मन्यामि तत्सर्वं बुध्यस्व बलमात्मनः | 009c नियतं सर्वमित्रेषु बलवत्स्वबलेषु च || 010a उच्चावचं बलं ज्ञात्वा मध्यस्थं चापि भारत | 010c प्रहृष्टमप्रहृष्टं च सन्दधाम तथा परैः || 011a साम्ना भेदेन दानेन दण्डेन बलिकर्मणा | 011c न्यायेनानम्य च परान्बलाच्चानम्य दुर्बलान् || 012a सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् | 012c सकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि || 013a योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः | 013c अन्यैस्त्वं पाण्डवैर्वापि हीनस्वबलवाहनैः || 014a एवं सर्वं विनिश्चित्य व्यवसायं स्वधर्मतः | 014c यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि ||