001 वैशम्पायन उवाच || 001a ततः शान्तनवो भीष्मो भरतानां पितामहः | 001c श्रुतवान्देशकालज्ञस्तत्त्वज्ञः सर्वधर्मवित् || 002a आचार्यवाक्योपरमे तद्वाक्यमभिसन्दधत् | 002c हितार्थं स उवाचेमां भारतीं भारतान्प्रति || 003a युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंश्रिताम् | 003c असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा | 003e भीष्मः समवदत्तत्र गिरं साधुभिरर्चिताम् || 004a यथैष ब्राह्मणः प्राह द्रोणः सर्वार्थतत्त्ववित् | 004c सर्वलक्षणसम्पन्ना नाशं नार्हन्ति पाण्डवाः || 005a श्रुतवृत्तोपसम्पन्नाः साधुव्रतसमन्विताः | 005c वृद्धानुशासने मग्नाः सत्यव्रतपरायणाः || 006a समयं समयज्ञास्ते पालयन्तः शुचिव्रताः | 006c नावसीदितुमर्हन्ति उद्वहन्तः सतां धुरम् || 007a धर्मतश्चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः | 007c न नाशमधिगच्छेयुरिति मे धीयते मतिः || 008a तत्र बुद्धिं प्रणेष्यामि पाण्डवान्प्रति भारत | 008c न तु नीतिः सुनीतस्य शक्यतेऽन्वेषितुं परैः || 009a यत्तु शक्यमिहास्माभिस्तान्वै सञ्चिन्त्य पाण्डवान् | 009c बुद्ध्या प्रवक्तुं न द्रोहात्प्रवक्ष्यामि निबोध तत् || 010a सा त्वियं साधु वक्तव्या न त्वनीतिः कथञ्चन | 010c वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः || 011a अवश्यं त्विह धीरेण सतां मध्ये विवक्षता | 011c यथामति विवक्तव्यं सर्वशो धर्मलिप्सया || 012a तत्र नाहं तथा मन्ये यथायमितरो जनः | 012c पुरे जनपदे वापि यत्र राजा युधिष्ठिरः || 013a नासूयको न चापीर्षुर्नातिवादी न मत्सरी | 013c भविष्यति जनस्तत्र स्वं स्वं धर्ममनुव्रतः || 014a ब्रह्मघोषाश्च भूयांसः पूर्णाहुत्यस्तथैव च | 014c क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः || 015a सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः | 015c सम्पन्नसस्या च मही निरीतीका भविष्यति || 016a रसवन्ति च धान्यानि गुणवन्ति फलानि च | 016c गन्धवन्ति च माल्यानि शुभशब्दा च भारती || 017a वायुश्च सुखसंस्पर्शो निष्प्रतीपं च दर्शनम् | 017c भयं नाभ्याविशेत्तत्र यत्र राजा युधिष्ठिरः || 018a गावश्च बहुलास्तत्र न कृशा न च दुर्दुहाः | 018c पयांसि दधिसर्पींषि रसवन्ति हितानि च || 019a गुणवन्ति च पानानि भोज्यानि रसवन्ति च | 019c तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः || 020a रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः | 020c दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः || 021a स्वैः स्वैर्गुणैः सुसंयुक्तास्तस्मिन्वर्षे त्रयोदशे | 021c देशे तस्मिन्भविष्यन्ति तात पाण्डवसंयुते || 022a सम्प्रीतिमाञ्जनस्तत्र सन्तुष्टः शुचिरव्ययः | 022c देवतातिथिपूजासु सर्वभूतानुरागवान् || 023a इष्टदानो महोत्साहः शश्वद्धर्मपरायणः | 023c अशुभद्विट्शुभप्रेप्सुर्नित्ययज्ञः शुभव्रतः | 023e भविष्यति जनस्तत्र यत्र राजा युधिष्ठिरः || 024a त्यक्तवाक्यानृतस्तात शुभकल्याणमङ्गलः | 024c शुभार्थेप्सुः शुभमतिर्यत्र राजा युधिष्ठिरः | 024e भविष्यति जनस्तत्र नित्यं चेष्टप्रियव्रतः || 025a धर्मात्मा स तदादृश्यः सोऽपि तात द्विजातिभिः | 025c किं पुनः प्राकृतैः पार्थः शक्यो विज्ञातुमन्ततः || 026a यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा | 026c ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् || 027a तस्मात्तत्र निवासं तु छन्नं सत्रेण धीमतः | 027c गतिं वा परमां तस्य नोत्सहे वक्तुमन्यथा || 028a एवमेतत्तु सञ्चिन्त्य यत्कृतं मन्यसे हितम् | 028c तत्क्षिप्रं कुरु कौरव्य यद्येवं श्रद्दधासि मे ||