001 वैशम्पायन उवाच || 001a अथाब्रवीन्महावीर्यो द्रोणस्तत्त्वार्थदर्शिवान् | 001c न तादृशा विनश्यन्ति नापि यान्ति पराभवम् || 002a शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः | 002c धर्मज्ञाश्च कृतज्ञाश्च धर्मराजमनुव्रताः || 003a नीतिधर्मार्थतत्त्वज्ञं पितृवच्च समाहितम् | 003c धर्मे स्थितं सत्यधृतिं ज्येष्ठं ज्येष्ठापचायिनम् || 004a अनुव्रता महात्मानं भ्रातरं भ्रातरो नृप | 004c अजातशत्रुं ह्रीमन्तं तं च भ्रातॄननुव्रतम् || 005a तेषां तथा विधेयानां निभृतानां महात्मनाम् | 005c किमर्थं नीतिमान्पार्थः श्रेयो नैषां करिष्यति || 006a तस्माद्यत्नात्प्रतीक्षन्ते कालस्योदयमागतम् | 006c न हि ते नाशमृच्छेयुरिति पश्याम्यहं धिया || 007a साम्प्रतं चैव यत्कार्यं तच्च क्षिप्रमकालिकम् | 007c क्रियतां साधु सञ्चिन्त्य वासश्चैषां प्रचिन्त्यताम् || 008a यथावत्पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् | 008c दुर्ज्ञेयाः खलु शूरास्ते अपापास्तपसा वृताः || 009a शुद्धात्मा गुणवान्पार्थः सत्यवान्नीतिमाञ्शुचिः | 009c तेजोराशिरसङ्ख्येयो गृह्णीयादपि चक्षुषी || 010a विज्ञाय क्रियतां तस्माद्भूयश्च मृगयामहे | 010c ब्राह्मणैश्चारकैः सिद्धैर्ये चान्ये तद्विदो जनाः ||