001 वैशम्पायन उवाच || 001a ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा | 001c चिरमन्तर्मना भूत्वा प्रत्युवाच सभासदः || 002a सुदुःखा खलु कार्याणां गतिर्विज्ञातुमन्ततः | 002c तस्मात्सर्वे उदीक्षध्वं क्व नु स्युः पाण्डवा गताः || 003a अल्पावशिष्टं कालस्य गतभूयिष्ठमन्ततः | 003c तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे || 004a अस्य वर्षस्य शेषं चेद्व्यतीयुरिह पाण्डवाः | 004c निवृत्तसमयास्ते हि सत्यव्रतपरायणाः || 005a क्षरन्त इव नागेन्द्राः सर्व आशीविषोपमाः | 005c दुःखा भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् || 006a अर्वाक्कालस्य विज्ञाताः कृच्छ्ररूपधराः पुनः | 006c प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् || 007a तस्मात्क्षिप्रं बुभुत्सध्वं यथा नोऽत्यन्तमव्ययम् | 007c राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् || 008a अथाब्रवीत्ततः कर्णः क्षिप्रं गच्छन्तु भारत | 008c अन्ये धूर्ततरा दक्षा निभृताः साधुकारिणः || 009a चरन्तु देशान्संवीताः स्फीताञ्जनपदाकुलान् | 009c तत्र गोष्ठीष्वथान्यासु सिद्धप्रव्रजितेषु च || 010a परिचारेषु तीर्थेषु विविधेष्वाकरेषु च | 010c विज्ञातव्या मनुष्यैस्तैस्तर्कया सुविनीतया || 011a विविधैस्तत्परैः सम्यक्तज्ज्ञैर्निपुणसंवृतैः | 011c अन्वेष्टव्याश्च निपुणं पाण्डवाश्छन्नवासिनः || 012a नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च | 012c आश्रमेषु च रम्येषु पर्वतेषु गुहासु च || 013a अथाग्रजानन्तरजः पापभावानुरागिणम् | 013c ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् || 014a एतच्च कर्णो यत्प्राह सर्वमीक्षामहे तथा | 014c यथोद्दिष्टं चराः सर्वे मृगयन्तु ततस्ततः | 014e एते चान्ये च भूयांसो देशाद्देशं यथाविधि || 015a न तु तेषां गतिर्वासः प्रवृत्तिश्चोपलभ्यते | 015c अत्याहितं वा गूढास्ते पारं वोर्मिमतो गताः || 016a व्यालैर्वापि महारण्ये भक्षिताः शूरमानिनः | 016c अथ वा विषमं प्राप्य विनष्टाः शाश्वतीः समाः || 017a तस्मान्मानसमव्यग्रं कृत्वा त्वं कुरुनन्दन | 017c कुरु कार्यं यथोत्साहं मन्यसे यन्नराधिप ||