001 वैशम्पायन उवाच || 001a ते दृष्ट्वा निहतान्सूतान्राज्ञे गत्वा न्यवेदयन् | 001c गन्धर्वैर्निहता राजन्सूतपुत्राः परःशताः || 002a यथा वज्रेण वै दीर्णं पर्वतस्य महच्छिरः | 002c विनिकीर्णं प्रदृश्येत तथा सूता महीतले || 003a सैरन्ध्री च विमुक्तासौ पुनरायाति ते गृहम् | 003c सर्वं संशयितं राजन्नगरं ते भविष्यति || 004a तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः | 004c पुंसामिष्टश्च विषयो मैथुनाय न संशयः || 005a यथा सैरन्ध्रिवेषेण न ते राजन्निदं पुरम् | 005c विनाशमेति वै क्षिप्रं तथा नीतिर्विधीयताम् || 006a तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः | 006c अब्रवीत्क्रियतामेषां सूतानां परमक्रिया || 007a एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने | 007c दह्यन्तां कीचकाः शीघ्रं रत्नैर्गन्धैश्च सर्वशः || 008a सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः 008c सैरन्ध्रीमागतां ब्रूया ममैव वचनादिदम् || 009a गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराबले | 009c बिभेति राजा सुश्रोणि गन्धर्वेभ्यः पराभवात् || 010a न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् | 010c स्त्रियस्त्वदोषास्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् || 011a अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च | 011c मोक्षिता भीमसेनेन जगाम नगरं प्रति || 012a त्रासितेव मृगी बाला शार्दूलेन मनस्विनी | 012c गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा || 013a तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश | 013c गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टीर्न्यमीलयन् || 014a ततो महानसद्वारि भीमसेनमवस्थितम् | 014c ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम् || 015a तं विस्मयन्ती शनकैः सञ्ज्ञाभिरिदमब्रवीत् | 015c गन्धर्वराजाय नमो येनास्मि परिमोचिता || 016 भीमसेन उवाच || 016a ये यस्या विचरन्तीह पुरुषा वशवर्तिनः | 016c तस्यास्ते वचनं श्रुत्वा अनृणा विचरन्त्युत || 017 वैशम्पायन उवाच || 017a ततः सा नर्तनागारे धनञ्जयमपश्यत | 017c राज्ञः कन्या विराटस्य नर्तयानं महाभुजम् || 018a ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः | 018c कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम् || 019 कन्या ऊचुः || 019a दिष्ट्या सैरन्ध्रि मुक्तासि दिष्ट्यासि पुनरागता | 019c दिष्ट्या विनिहताः सूता ये त्वां क्लिश्यन्त्यनागसम् || 020 बृहन्नडोवाच || 020a कथं सैरन्ध्रि मुक्तासि कथं पापाश्च ते हताः | 020c इच्छामि वै तव श्रोतुं सर्वमेव यथातथम् || 021 सैरन्ध्र्युवाच || 021a बृहन्नडे किं नु तव सैरन्ध्र्या कार्यमद्य वै | 021c या त्वं वससि कल्याणि सदा कन्यापुरे सुखम् || 022a न हि दुःखं समाप्नोषि सैरन्ध्री यदुपाश्नुते | 022c तेन मां दुःखितामेवं पृच्छसे प्रहसन्निव || 023 बृहन्नडोवाच || 023a बृहन्नडापि कल्याणि दुःखमाप्नोत्यनुत्तमम् | 023c तिर्यग्योनिगता बाले न चैनामवबुध्यसे || 024 वैशम्पायन उवाच || 024a ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत् | 024c प्रविवेश सुदेष्णायाः समीपमपलायिनी || 025a तामब्रवीद्राजपुत्री विराटवचनादिदम् | 025c सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् || 026a राजा बिभेति भद्रं ते गन्धर्वेभ्यः पराभवात् | 026c त्वं चापि तरुणी सुभ्रु रूपेणाप्रतिमा भुवि || 027 सैरन्ध्र्युवाच || 027a त्रयोदशाहमात्रं मे राजा क्षमतु भामिनि | 027c कृतकृत्या भविष्यन्ति गन्धर्वास्ते न संशयः || 028a ततो मां तेऽपनेष्यन्ति करिष्यन्ति च ते प्रियम् | 028c ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः ||