001 वैशम्पायन उवाच || 001a तस्मिन्काले समागम्य सर्वे तत्रास्य बान्धवाः | 001c रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः || 002a सर्वे संहृष्टरोमाणः सन्त्रस्ताः प्रेक्ष्य कीचकम् | 002c तथा सर्वाङ्गसम्भुग्नं कूर्मं स्थल इवोद्धृतम् || 003a पोथितं भीमसेनेन तमिन्द्रेणेव दानवम् | 003c संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः || 004a ददृशुस्ते ततः कृष्णां सूतपुत्राः समागताः | 004c अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् || 005a समवेतेषु सूतेषु तानुवाचोपकीचकः | 005c हन्यतां शीघ्रमसती यत्कृते कीचको हतः || 006a अथ वा नेह हन्तव्या दह्यतां कामिना सह | 006c मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा || 007a ततो विराटमूचुस्ते कीचकोऽस्याः कृते हतः | 007c सहाद्यानेन दह्येत तदनुज्ञातुमर्हसि || 008a पराक्रमं तु सूतानां मत्वा राजान्वमोदत | 008c सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते || 009a तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम् | 009c मोमुह्यमानां ते तत्र जगृहुः कीचका भृशम् || 010a ततस्तु तां समारोप्य निबध्य च सुमध्यमाम् | 010c जग्मुरुद्यम्य ते सर्वे श्मशानमभितस्तदा || 011a ह्रियमाणा तु सा राजन्सूतपुत्रैरनिन्दिता | 011c प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती || 012 द्रौपद्युवाच || 012a जयो जयन्तो विजयो जयत्सेनो जयद्बलः | 012c ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् || 013a येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः | 013c व्यश्रूयत महायुद्धे भीमघोषस्तरस्विनाम् || 014a रथघोषश्च बलवान्गन्धर्वाणां यशस्विनाम् | 014c ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् || 015 वैशम्पायन उवाच || 015a तस्यास्ताः कृपणा वाचः कृष्णायाः परिदेविताः | 015c श्रुत्वैवाभ्यपतद्भीमः शयनादविचारयन् || 016 भीमसेन उवाच || 016a अहं शृणोमि ते वाचं त्वया सैरन्ध्रि भाषिताम् | 016c तस्मात्ते सूतपुत्रेभ्यो न भयं भीरु विद्यते || 017 वैशम्पायन उवाच || 017a इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया | 017c ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च | 017e अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा || 018a स भीमसेनः प्राकारादारुज्य तरसा द्रुमम् | 018c श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः || 019a स तं वृक्षं दशव्यामं सस्कन्धविटपं बली | 019c प्रगृह्याभ्यद्रवत्सूतान्दण्डपाणिरिवान्तकः || 020a ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः | 020c भूमौ निपतिता वृक्षाः सङ्घशस्तत्र शेरते || 021a तं सिंहमिव सङ्क्रुद्धं दृष्ट्वा गन्धर्वमागतम् | 021c वित्रेसुः सर्वतः सूता विषादभयकम्पिताः || 022a तमन्तकमिवायान्तं गन्धर्वं प्रेक्ष्य ते तदा | 022c दिधक्षन्तस्तदा ज्येष्ठं भ्रातरं ह्युपकीचकाः | 022e परस्परमथोचुस्ते विषादभयकम्पिताः || 023a गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम् | 023c सैरन्ध्री मुच्यतां शीघ्रं महन्नो भयमागतम् || 024a ते तु दृष्ट्वा तमाविद्धं भीमसेनेन पादपम् | 024c विमुच्य द्रौपदीं तत्र प्राद्रवन्नगरं प्रति || 025a द्रवतस्तांस्तु सम्प्रेक्ष्य स वज्री दानवानिव | 025c शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् || 026a तत आश्वासयत्कृष्णां प्रविमुच्य विशां पते | 026c उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम् | 026e अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः || 027a एवं ते भीरु वध्यन्ते ये त्वां क्लिश्यन्त्यनागसम् | 027c प्रैहि त्वं नगरं कृष्णे न भयं विद्यते तव | 027e अन्येनाहं गमिष्यामि विराटस्य महानसम् || 028a पञ्चाधिकं शतं तच्च निहतं तत्र भारत | 028c महावनमिव छिन्नं शिश्ये विगलितद्रुमम् || 029a एवं ते निहता राजञ्शतं पञ्च च कीचकाः | 029c स च सेनापतिः पूर्वमित्येतत्सूतषट्शतम् || 030a तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च सङ्गताः | 030c विस्मयं परमं गत्वा नोचुः किञ्चन भारत ||