001 भीमसेन उवाच || 001a तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे | 001c अद्य तं सूदयिष्यामि कीचकं सहबान्धवम् || 002a अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन सङ्गमम् | 002c दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते || 003a यैषा नर्तनशाला वै मत्स्यराजेन कारिता | 003c दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् || 004a तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम् || 004c तत्रास्य दर्शयिष्यामि पूर्वप्रेतान्पितामहान् || 005a यथा च त्वां न पश्येयुः कुर्वाणां तेन संविदम् | 005c कुर्यास्तथा त्वं कल्याणि यथा सन्निहितो भवेत् || 006 वैशम्पायन उवाच || 006a तथा तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ | 006c रात्रिशेषं तदत्युग्रं धारयामासतुर्हृदा || 007a तस्यां रात्र्यां व्यतीतायां प्रातरुत्थाय कीचकः | 007c गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् || 008a सभायां पश्यतो राज्ञः पातयित्वा पदाहनम् | 008c न चैवालभथास्त्राणमभिपन्ना बलीयसा || 009a प्रवादेन हि मत्स्यानां राजा नाम्नायमुच्यते | 009c अहमेव हि मत्स्यानां राजा वै वाहिनीपतिः || 010a सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते | 010c अह्नाय तव सुश्रोणि शतं निष्कान्ददाम्यहम् || 011a दासीशतं च ते दद्यां दासानामपि चापरम् | 011c रथं चाश्वतरीयुक्तमस्तु नौ भीरु सङ्गमः || 012 द्रौपद्युवाच || 012a एकं मे समयं त्वद्य प्रतिपद्यस्व कीचक | 012c न त्वां सखा वा भ्राता वा जानीयात्सङ्गतं मया || 013a अवबोधाद्धि भीतास्मि गन्धर्वाणां यशस्विनाम् | 013c एवं मे प्रतिजानीहि ततोऽहं वशगा तव | 014 कीचक उवाच || 014a एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे | 014c एको भद्रे गमिष्यामि शून्यमावसथं तव || 015a समागमार्थं रम्भोरु त्वया मदनमोहितः | 015c यथा त्वां नावभोत्स्यन्ति गन्धर्वाः सूर्यवर्चसः || 016 द्रौपद्युवाच || 016a यदिदं नर्तनागारं मत्स्यराजेन कारितम् | 016c दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् || 017a तमिस्रे तत्र गच्छेथा गन्धर्वास्तन्न जानते | 017c तत्र दोषः परिहृतो भविष्यति न संशयः || 018 वैशम्पायन उवाच || 018a तमर्थं प्रतिजल्पन्त्याः कृष्णायाः कीचकेन ह | 018c दिवसार्धं समभवन्मासेनैव समं नृप || 019a कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः | 019c सैरन्ध्रीरूपिणं मूढो मृत्युं तं नावबुद्धवान् || 020a गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः | 020c अलञ्चकार सोऽऽत्मानं सत्वरः काममोहितः || 021a तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत् | 021c अनुचिन्तयतश्चापि तामेवायतलोचनाम् || 022a आसीदभ्यधिका चास्य श्रीः श्रियं प्रमुमुक्षतः | 022c निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः || 023a कृतसम्प्रत्ययस्तत्र कीचकः काममोहितः | 023c नाजानाद्दिवसं यान्तं चिन्तयानः समागमम् || 024a ततस्तु द्रौपदी गत्वा तदा भीमं महानसे | 024c उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् || 025a तमुवाच सुकेशान्ता कीचकस्य मया कृतः | 025c सङ्गमो नर्तनागारे यथावोचः परन्तप || 026a शून्यं स नर्तनागारमागमिष्यति कीचकः | 026c एको निशि महाबाहो कीचकं तं निषूदय || 027a तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम् | 027c गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव || 028a दर्पाच्च सूतपुत्रोऽसौ गन्धर्वानवमन्यते | 028c तं त्वं प्रहरतां श्रेष्ठ नडं नाग इवोद्धर || 029a अश्रु दुःखाभिभूताया मम मार्जस्व भारत 029c आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च 030 भीमसेन उवाच || 030a स्वागतं ते वरारोहे यन्मा वेदयसे प्रियम् | 030c न ह्यस्य कञ्चिदिच्छामि सहायं वरवर्णिनि || 031a या मे प्रीतिस्त्वयाख्याता कीचकस्य समागमे | 031c हत्वा हिडिम्बं सा प्रीतिर्ममासीद्वरवर्णिनि || 032a सत्यं भ्रातॄंश्च धर्मं च पुरस्कृत्य ब्रवीमि ते | 032c कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा || 033a तं गह्वरे प्रकाशे वा पोथयिष्यामि कीचकम् | 033c अथ चेदवभोत्स्यन्ति हंस्ये मत्स्यानपि ध्रुवम् || 034a ततो दुर्योधनं हत्वा प्रतिपत्स्ये वसुन्धराम् | 034c कामं मत्स्यमुपास्तां हि कुन्तीपुत्रो युधिष्ठिरः || 035 द्रौपद्युवाच || 035a यथा न सन्त्यजेथास्त्वं सत्यं वै मत्कृते विभो | 035c निगूढस्त्वं तथा वीर कीचकं विनिपातय || 036 भीमसेन उवाच || 036a एवमेतत्करिष्यामि यथा त्वं भीरु भाषसे | 036c अदृश्यमानस्तस्याद्य तमस्विन्यामनिन्दिते || 037a नागो बिल्वमिवाक्रम्य पोथयिष्याम्यहं शिरः | 037c अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः || 038 वैशम्पायन उवाच || 038a भीमोऽथ प्रथमं गत्वा रात्रौ छन्न उपाविशत् | 038c मृगं हरिरिवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् || 039a कीचकश्चाप्यलङ्कृत्य यथाकाममुपाव्रजत् | 039c तां वेलां नर्तनागारे पाञ्चालीसङ्गमाशया || 040a मन्यमानः स सङ्केतमागारं प्राविशच्च तम् | 040c प्रविश्य च स तद्वेश्म तमसा संवृतं महत् || 041a पूर्वागतं ततस्तत्र भीममप्रतिमौजसम् | 041c एकान्तमास्थितं चैनमाससाद सुदुर्मतिः || 042a शयानं शयने तत्र मृत्युं सूतः परामृशत् | 042c जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह || 043a उपसङ्गम्य चैवैनं कीचकः काममोहितः | 043c हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत || 044a प्रापितं ते मया वित्तं बहुरूपमनन्तकम् | 044a तत्सर्वं त्वां समुद्दिश्य सहसा समुपागतः || 045a नाकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः | 045c सुवासा दर्शनीयश्च नान्योऽस्ति त्वादृशः पुमान् || 046 भीमसेन उवाच || 046a दिष्ट्या त्वं दर्शनीयोऽसि दिष्ट्यात्मानं प्रशंससि | 046c ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् || 047 वैशम्पायन उवाच || 047a इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः | 047c समुत्पत्य च कौन्तेयः प्रहस्य च नराधमम् | 047e भीमो जग्राह केशेषु माल्यवत्सु सुगन्धिषु || 048a स केशेषु परामृष्टो बलेन बलिनां वरः | 048c आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् || 049a बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः | 049c वसन्ते वाशिताहेतोर्बलवद्गजयोरिव || 050a ईषदागलितं चापि क्रोधाच्चलपदं स्थितम् | 050c कीचको बलवान्भीमं जानुभ्यामाक्षिपद्भुवि || 051a पातितो भुवि भीमस्तु कीचकेन बलीयसा | 051c उत्पपाताथ वेगेन दण्डाहत इवोरगः || 052a स्पर्धया च बलोन्मत्तौ तावुभौ सूतपाण्डवौ | 052c निशीथे पर्यकर्षेतां बलिनौ निशि निर्जने || 053a ततस्तद्भवनश्रेष्ठं प्राकम्पत मुहुर्मुहुः | 053c बलवच्चापि सङ्क्रुद्धावन्योन्यं तावगर्जताम् || 054a तलाभ्यां तु स भीमेन वक्षस्यभिहतो बली | 054c कीचको रोषसन्तप्तः पदान्न चलितः पदम् || 055a मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम् | 055c बलादहीयत तदा सूतो भीमबलार्दितः || 056a तं हीयमानं विज्ञाय भीमसेनो महाबलः | 056c वक्षस्यानीय वेगेन ममन्थैनं विचेतसम् || 057a क्रोधाविष्टो विनिःश्वस्य पुनश्चैनं वृकोदरः | 057c जग्राह जयतां श्रेष्ठः केशेष्वेव तदा भृशम् || 058a गृहीत्वा कीचकं भीमो विरुराव महाबलः | 058c शार्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम् || 059a तस्य पादौ च पाणी च शिरो ग्रीवां च सर्वशः | 059c काये प्रवेशयामास पशोरिव पिनाकधृक् || 060a तं सम्मथितसर्वाङ्गं मांसपिण्डोपमं कृतम् | 060c कृष्णायै दर्शयामास भीमसेनो महाबलः || 061a उवाच च महातेजा द्रौपदीं पाण्डुनन्दनः | 061c पश्यैनमेहि पाञ्चालि कामुकोऽयं यथा कृतः || 062a तथा स कीचकं हत्वा गत्वा रोषस्य वै शमम् | 062c आमन्त्र्य द्रौपदीं कृष्णां क्षिप्रमायान्महानसम् || 063a कीचकं घातयित्वा तु द्रौपदी योषितां वरा | 063c प्रहृष्टा गतसन्तापा सभापालानुवाच ह || 064a कीचकोऽयं हतः शेते गन्धर्वैः पतिभिर्मम | 064c परस्त्रीकामसम्मत्तः समागच्छत पश्यत || 065a तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः | 065c सहसैव समाजग्मुरादायोल्काः सहस्रशः || 066a ततो गत्वाथ तद्वेश्म कीचकं विनिपातितम् | 066c गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् || 067a क्वास्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरस्तथा | 067c इति स्म तं परीक्षन्ते गन्धर्वेण हतं तदा ||