001 भीमसेन उवाच || 001a धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च | 001c यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणावुभौ || 002a सभायां स्म विराटस्य करोमि कदनं महत् | 002c तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत् | 002e तदहं तस्य विज्ञाय स्थित एवास्मि भामिनि || 003a यच्च राष्ट्रात्प्रच्यवनं कुरूणामवधश्च यः | 003c सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च || 004a दुःशासनस्य पापस्य यन्मया न हृतं शिरः | 004c तन्मे दहति कल्याणि हृदि शल्यमिवार्पितम् || 004e मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते | 005a इमं च समुपालम्भं त्वत्तो राजा युधिष्ठिरः | 005c शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितम् || 006a धनञ्जयो वा सुश्रोणि यमौ वा तनुमध्यमे | 006c लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम् || 007a सुकन्या नाम शार्याती भार्गवं च्यवनं वने | 007c वल्मीकभूतं शाम्यन्तमन्वपद्यत भामिनी || 008a नाडायनी चेन्द्रसेना रूपेण यदि ते श्रुता | 008c पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम् || 009a दुहिता जनकस्यापि वैदेही यदि ते श्रुता | 009c पतिमन्वचरत्सीता महारण्यनिवासिनम् || 010a रक्षसा निग्रहं प्राप्य रामस्य महिषी प्रिया | 010c क्लिश्यमानापि सुश्रोणी राममेवान्वपद्यत || 011a लोपामुद्रा तथा भीरु वयोरूपसमन्विता | 011c अगस्त्यमन्वयाद्धित्वा कामान्सर्वानमानुषान् || 012a यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः | 012c तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः || 013a मादीर्घं क्षम कालं त्वं मासमध्यर्धसम्मितम् | 013c पूर्णे त्रयोदशे वर्षे राज्ञो राज्ञी भविष्यसि || 014 द्रौपद्युवाच || 014a आर्तयैतन्मया भीम कृतं बाष्पविमोक्षणम् | 014c अपारयन्त्या दुःखानि न राजानमुपालभे || 015a विमुक्तेन व्यतीतेन भीमसेन महाबल | 015c प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव || 016a ममेह भीम कैकेयी रूपाभिभवशङ्कया | 016c नित्यमुद्विजते राजा कथं नेयादिमामिति || 017a तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः | 017c कीचकोऽयं सुदुष्टात्मा सदा प्रार्थयते हि माम् || 018a तमहं कुपिता भीम पुनः कोपं नियम्य च | 018c अब्रुवं कामसम्मूढमात्मानं रक्ष कीचक || 019a गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया | 019c ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः || 020a एवमुक्तः स दुष्टात्मा कीचकः प्रत्युवाच ह | 020c नाहं बिभेमि सैरन्ध्रि गन्धर्वाणां शुचिस्मिते || 021a शतं सहस्रमपि वा गन्धर्वाणामहं रणे | 021c समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् || 022a इत्युक्ते चाब्रुवं सूतं कामातुरमहं पुनः | 022c न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम् || 023a धर्मे स्थितास्मि सततं कुलशीलसमन्विता | 023c नेच्छामि किञ्चिद्वध्यन्तं तेन जीवसि कीचक || 024a एवमुक्तः स दुष्टात्मा प्रहस्य स्वनवत्तदा | 024c न तिष्ठति स्म सन्मार्गे न च धर्मं बुभूषति || 025a पापात्मा पापभावश्च कामरागवशानुगः | 025c अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः | 025e दर्शने दर्शने हन्यात्तथा जह्यां च जीवितम् || 026a तद्धर्मे यतमानानां महान्धर्मो नशिष्यति | 026c समयं रक्षमाणानां भार्या वो न भविष्यति || 027a भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता | 027c प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः || 028a वदतां वर्णधर्मांश्च ब्राह्मणानां हि मे श्रुतम् | 028c क्षत्रियस्य सदा धर्मो नान्यः शत्रुनिबर्हणात् || 029a पश्यतो धर्मराजस्य कीचको मां पदावधीत् | 029c तव चैव समक्षं वै भीमसेन महाबल || 030a त्वया ह्यहं परित्राता तस्माद्घोराज्जटासुरात् | 030c जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह || 031a जहीममपि पापं त्वं योऽयं मामवमन्यते | 031c कीचको राजवाल्लभ्याच्छोककृन्मम भारत || 032a तमेवं कामसम्मत्तं भिन्धि कुम्भमिवाश्मनि | 032c यो निमित्तमनर्थानां बहूनां मम भारत || 033a तं चेज्जीवन्तमादित्यः प्रातरभ्युदयिष्यति | 033c विषमालोड्य पास्यामि मा कीचकवशं गमम् | 033e श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः || 034 वैशम्पायन उवाच || 034a इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरः समाश्रिता | 034c भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च | 034e कीचकं मनसागच्छत्सृक्किणी परिसंलिहन् ||