001 द्रौपद्युवाच|| 001a अहं सैरन्ध्रिवेषेण चरन्ती राजवेश्मनि | 001c शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात् || 002a विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप | 002c आसे कालमुपासीना सर्वं दुःखं किलार्तवत् || 003a अनित्या किल मर्त्यानामर्थसिद्धिर्जयाजयौ | 003c इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः || 004a य एव हेतुर्भवति पुरुषस्य जयावहः | 004c पराजये च हेतुः स इति च प्रतिपालये || 005a दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे | 005c पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् || 006a न दैवस्यातिभारोऽस्ति न दैवस्यातिवर्तनम् | 006c इति चाप्यागमं भूयो दैवस्य प्रतिपालये || 007a स्थितं पूर्वं जलं यत्र पुनस्तत्रैव तिष्ठति | 007c इति पर्यायमिच्छन्ती प्रतीक्षाम्युदयं पुनः || 008a दैवेन किल यस्यार्थः सुनीतोऽपि विपद्यते | 008c दैवस्य चागमे यत्नस्तेन कार्यो विजानता || 009a यत्तु मे वचनस्यास्य कथितस्य प्रयोजनम् | 009c पृच्छ मां दुःखितां तत्त्वमपृष्टा वा ब्रवीमि ते || 010a महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च | 010c इमामवस्थां सम्प्राप्ता का मदन्या जिजीविषेत् || 011a कुरून्परिभवन्सर्वान्पाञ्चालानपि भारत | 011c पाण्डवेयांश्च सम्प्राप्तो मम क्लेशो ह्यरिन्दम || 012a भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परवीरहन् | 012c एवं समुदिता नारी का न्वन्या दुःखिता भवेत् || 013a नूनं हि बालया धातुर्मया वै विप्रियं कृतम् | 013c यस्य प्रसादाद्दुर्नीतं प्राप्तास्मि भरतर्षभ || 014a वर्णावकाशमपि मे पश्य पाण्डव यादृशम् | 014c यादृशो मे न तत्रासीद्दुःखे परमके तदा || 015a त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा | 015c साहं दासत्वमापन्ना न शान्तिमवशा लभे || 016a नादैविकमिदं मन्ये यत्र पार्थो धनञ्जयः | 016c भीमधन्वा महाबाहुरास्ते शान्त इवानलः || 017a अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः 017c विनिपातमिमं मन्ये युष्माकमविचिन्तितम् 018a यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा 018c सा प्रेक्षे मुखमन्यासामवराणां वरा सती 019a पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा 019c युष्मासु ध्रियमाणेषु पश्य कालस्य पर्ययम् 020a यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी 020c आसीत्साद्य सुदेष्णाया भीताहं वशवर्तिनी 021a यस्याः पुरःसरा आसन्पृष्ठतश्चानुगामिनः 021c साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी | 021e इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् || 022a या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः | 022c अन्यत्र कुन्त्या भद्रं ते साद्य पिंषामि चन्दनम् | 022e पश्य कौन्तेय पाणी मे नैवं यौ भवतः पुरा || 023 वैशम्पायन उवाच || 023a इत्यस्य दर्शयामास किणबद्धौ करावुभौ | 024 द्रौपद्युवाच || 024a बिभेमि कुन्त्या या नाहं युष्माकं वा कदाचन | 024c साद्याग्रतो विराटस्य भीता तिष्ठामि किङ्करी || 025a किं नु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा | 025c नान्यपिष्टं हि मत्स्यस्य चन्दनं किल रोचते || 026 वैशम्पायन उवाच || 026a सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी | 026c रुरोद शनकैः कृष्णा भीमसेनमुदीक्षती || 027a सा बाष्पकलया वाचा निःश्वसन्ती पुनः पुनः | 027c हृदयं भीमसेनस्य घट्टयन्तीदमब्रवीत् || 028a नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा | 028c अभाग्या यत्तु जीवामि मर्तव्ये सति पाण्डव || 029a ततस्तस्याः करौ शूनौ किणबद्धौ वृकोदरः | 029c मुखमानीय वेपन्त्या रुरोद परवीरहा || 030a तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान् | 030c ततः परमदुःखार्त इदं वचनमब्रवीत् ||