001 द्रौपद्युवाच || 001a इदं तु मे महद्दुःखं यत्प्रवक्ष्यामि भारत | 001c न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम् || 002a शार्दूलैर्महिषैः सिंहैरागारे युध्यसे यदा | 002c कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलो भवेत् || 003a प्रेक्षासमुत्थिता चापि कैकेयी ताः स्त्रियो वदेत् | 003c प्रेक्ष्य मामनवद्याङ्गी कश्मलोपहतामिव || 004a स्नेहात्संवासजान्मन्ये सूदमेषा शुचिस्मिता | 004c योध्यमानं महावीर्यैरिमं समनुशोचति || 005a कल्याणरूपा सैरन्ध्री बल्लवश्चातिसुन्दरः | 005c स्त्रीणां च चित्तं दुर्ज्ञेयं युक्तरूपौ च मे मतौ || 006a सैरन्ध्री प्रियसंवासान्नित्यं करुणवेदिनी | 006c अस्मिन्राजकुले चेमौ तुल्यकालनिवासिनौ || 007a इति ब्रुवाणा वाक्यानि सा मां नित्यमवेदयत् | 007c क्रुध्यन्तीं मां च सम्प्रेक्ष्य समशङ्कत मां त्वयि || 008a तस्यां तथा ब्रुवत्यां तु दुःखं मां महदाविशत् | 008c शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे || 009a यः सदेवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत् | 009c सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा || 010a योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम् | 010c सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः || 011a यस्माद्भयममित्राणां सदैव पुरुषर्षभात् | 011c स लोकपरिभूतेन वेषेणास्ते धनञ्जयः || 012a यस्य ज्यातलनिर्घोषात्समकम्पन्त शत्रवः | 012c स्त्रियो गीतस्वनं तस्य मुदिताः पर्युपासते || 013a किरीटं सूर्यसङ्काशं यस्य मूर्धनि शोभते | 013c वेणीविकृतकेशान्तः सोऽयमद्य धनञ्जयः || 014a यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि | 014c आधारः सर्वविद्यानां स धारयति कुण्डले || 015a यं स्म राजसहस्राणि तेजसाप्रतिमानि वै | 015c समरे नातिवर्तन्ते वेलामिव महार्णवः || 016a सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा | 016c आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः || 017a यस्य स्म रथघोषेण समकम्पत मेदिनी | 017c सपर्वतवना भीम सहस्थावरजङ्गमा || 018a यस्मिञ्जाते महाभागे कुन्त्याः शोको व्यनश्यत | 018c स शोचयति मामद्य भीमसेन तवानुजः || 019a भूषितं तमलङ्कारैः कुण्डलैः परिहाटकैः | 019c कम्बुपाणिनमायान्तं दृष्ट्वा सीदति मे मनः || 020a तं वेणीकृतकेशान्तं भीमधन्वानमर्जुनम् | 020c कन्यापरिवृतं दृष्ट्वा भीम सीदति मे मनः || 021a यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम् | 021c प्रभिन्नमिव मातङ्गं परिकीर्णं करेणुभिः || 022a मत्स्यमर्थपतिं पार्थं विराटं समुपस्थितम् | 022c पश्यामि तूर्यमध्यस्थं दिशो नश्यन्ति मे तदा || 023a नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनञ्जयम् | 023c अजातशत्रुं कौरव्यं मग्नं दुर्द्यूतदेविनम् || 024a तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम् | 024c गोषु गोवेषमायान्तं पाण्डुभूतास्मि भारत || 025a सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः | 025c न विन्दामि महाबाहो सहदेवस्य दुष्कृतम् | 025e यस्मिन्नेवंविधं दुःखं प्राप्नुयात्सत्यविक्रमः || 026a दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम् | 026c गोषु गोवृषसङ्काशं मत्स्येनाभिनिवेशितम् || 027a संरब्धं रक्तनेपथ्यं गोपालानां पुरोगमम् | 027c विराटमभिनन्दन्तमथ मे भवति ज्वरः || 028a सहदेवं हि मे वीरं नित्यमार्या प्रशंसति | 028c महाभिजनसम्पन्नो वृत्तवाञ्शीलवानिति || 029a ह्रीनिषेधो मधुरवाग्धार्मिकश्च प्रियश्च मे | 029c स तेऽरण्येषु बोद्धव्यो याज्ञसेनि क्षपास्वपि || 030a तं दृष्ट्वा व्यापृतं गोषु वत्सचर्मक्षपाशयम् | 030c सहदेवं युधां श्रेष्ठं किं नु जीवामि पाण्डव || 031a यस्त्रिभिर्नित्यसम्पन्नो रूपेणास्त्रेण मेधया | 031c सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् || 032a अभ्यकीर्यन्त वृन्दानि दामग्रन्थिमुदीक्षताम् | 032c विनयन्तं जवेनाश्वान्महाराजस्य पश्यतः || 033a अपश्यमेनं श्रीमन्तं मत्स्यं भ्राजिष्णुमुत्तमम् | 033c विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनः || 034a किं नु मां मन्यसे पार्थ सुखितेति परन्तप | 034c एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः || 035a अतः प्रतिविशिष्टानि दुःखान्यन्यानि भारत | 035c वर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्यपि || 036a युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत | 036c शोषयन्ति शरीरं मे किं नु दुःखमतः परम् ||