001 द्रौपद्युवाच || 001a अशोच्यं नु कुतस्तस्या यस्या भर्ता युधिष्ठिरः | 001c जानन्सर्वाणि दुःखानि किं मां त्वं परिपृच्छसि|| 002a यन्मां दासीप्रवादेन प्रातिकामी तदानयत् | 002c सभायां पार्षदो मध्ये तन्मां दहति भारत || 003a पार्थिवस्य सुता नाम का नु जीवेत मादृशी | 003c अनुभूय भृशं दुःखमन्यत्र द्रौपदीं प्रभो || 004a वनवासगतायाश्च सैन्धवेन दुरात्मना | 004c परामर्शं द्वितीयं च सोढुमुत्सहते नु का || 005a मत्स्यराज्ञः समक्षं च तस्य धूर्तस्य पश्यतः | 005c कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी || 006a एवं बहुविधैः क्लेशैः क्लिश्यमानां च भारत | 006c न मां जानासि कौन्तेय किं फलं जीवितेन मे 007a योऽयं राज्ञो विराटस्य कीचको नाम भारत | 007c सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः || 008a स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि | 008c नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै || 009a तेनोपमन्त्र्यमाणाया वधार्हेण सपत्नहन् | 009c कालेनेव फलं पक्वं हृदयं मे विदीर्यते || 010a भ्रातरं च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम् | 010c यस्यास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम् || 011a को हि राज्यं परित्यज्य सर्वस्वं चात्मना सह | 011c प्रव्रज्यायैव दीव्येत विना दुर्द्यूतदेविनम् || 012a यदि निष्कसहस्रेण यच्चान्यत्सारवद्धनम् | 012c सायम्प्रातरदेविष्यदपि संवत्सरान्बहून् || 013a रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम् | 013c अश्वाश्वतरसङ्घाश्च न जातु क्षयमावहेत् || 014a सोऽयं द्यूतप्रवादेन श्रिया प्रत्यवरोपितः | 014c तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन् || 015a दश नागसहस्राणि पद्मिनां हेममालिनाम् | 015c यं यान्तमनुयान्तीह सोऽयं द्यूतेन जीवति || 016a तथा शतसहस्राणि नृणाममिततेजसाम् | 016c उपासते महाराजमिन्द्रप्रस्थे युधिष्ठिरम् || 017a शतं दासीसहस्राणि यस्य नित्यं महानसे | 017c पात्रीहस्तं दिवारात्रमतिथीन्भोजयन्त्युत || 018a एष निष्कसहस्राणि प्रदाय ददतां वरः | 018c द्यूतजेन ह्यनर्थेन महता समुपावृतः || 019a एनं हि स्वरसम्पन्ना बहवः सूतमागधाः | 019c सायम्प्रातरुपातिष्ठन्सुमृष्टमणिकुण्डलाः || 020a सहस्रमृषयो यस्य नित्यमासन्सभासदः | 020c तपःश्रुतोपसम्पन्नाः सर्वकामैरुपस्थिताः || 021a अन्धान्वृद्धांस्तथानाथान्सर्वान्राष्ट्रेषु दुर्गतान् | 021c बिभर्त्यविमना नित्यमानृशंस्याद्युधिष्ठिरः || 022a स एष निरयं प्राप्तो मत्स्यस्य परिचारकः | 022c सभायां देविता राज्ञः कङ्को ब्रूते युधिष्ठिरः || 023a इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः | 023c आसन्बलिभृतः सर्वे सोऽद्यान्यैर्भृतिमिच्छति || 024a पार्थिवाः पृथिवीपाला यस्यासन्वशवर्तिनः | 024c स वशे विवशो राजा परेषामद्य वर्तते || 025a प्रताप्य पृथिवीं सर्वां रश्मिवानिव तेजसा | 025c सोऽयं राज्ञो विराटस्य सभास्तारो युधिष्ठिरः || 026a यमुपासन्त राजानः सभायामृषिभिः सह | 026c तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम् || 027a अतदर्हं महाप्राज्ञं जीवितार्थेऽभिसंश्रितम् | 027c दृष्ट्वा कस्य न दुःखं स्याद्धर्मात्मानं युधिष्ठिरम् || 028a उपास्ते स्म सभायां यं कृत्स्ना वीर वसुन्धरा | 028c तमुपासीनमद्यान्यं पश्य भारत भारतम् || 029a एवं बहुविधैर्दुःखैः पीड्यमानामनाथवत् | 029c शोकसागरमध्यस्थां किं मां भीम न पश्यसि ||