001 वैशम्पायन उवाच || 001a सा हता सूतपुत्रेण राजपुत्री समज्वलत् | 001c वधं कृष्णा परीप्सन्ती सेनावाहस्य भामिनी | 001e जगामावासमेवाथ तदा सा द्रुपदात्मजा || 002a कृत्वा शौचं यथान्यायं कृष्णा वै तनुमध्यमा | 002c गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा || 003a चिन्तयामास रुदती तस्य दुःखस्य निर्णयम् | 003c किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम || 004a इत्येवं चिन्तयित्वा सा भीमं वै मनसागमत् | 004c नान्यः कर्ता ऋते भीमान्ममाद्य मनसः प्रियम् || 005a तत उत्थाय रात्रौ सा विहाय शयनं स्वकम् | 005c प्राद्रवन्नाथमिच्छन्ती कृष्णा नाथवती सती | 005e दुःखेन महता युक्ता मानसेन मनस्विनी || 006a सा वै महानसे प्राप्य भीमसेनं शुचिस्मिता | 006c सर्वश्वेतेव माहेयी वने जाता त्रिहायनी | 006e उपातिष्ठत पाञ्चाली वाशितेव महागजम् || 007a सा लतेव महाशालं फुल्लं गोमतितीरजम् | 007c बाहुभ्यां परिरभ्यैनं प्राबोधयदनिन्दिता | 007e सिंहं सुप्तं वने दुर्गे मृगराजवधूरिव || 008a वीणेव मधुराभाषा गान्धारं साधु मूर्च्छिता | 008c अभ्यभाषत पाञ्चाली भीमसेनमनिन्दिता || 009a उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन यथा मृतः | 009c नामृतस्य हि पापीयान्भार्यामालभ्य जीवति || 010a तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि | 010c तत्कर्म कृतवत्यद्य कथं निद्रां निषेवसे || 011a स सम्प्रहाय शयनं राजपुत्र्या प्रबोधितः | 011c उपातिष्ठत मेघाभः पर्यङ्के सोपसङ्ग्रहे || 012a अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् | 012c केनास्यर्थेन सम्प्राप्ता त्वरितेव ममान्तिकम् || 013a न ते प्रकृतिमान्वर्णः कृशा पाण्डुश्च लक्ष्यसे | 013c आचक्ष्व परिशेषेण सर्वं विद्यामहं यथा || 014a सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् | 014c यथावत्सर्वमाचक्ष्व श्रुत्वा ज्ञास्यामि यत्परम् || 015a अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु | 015c अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः || 016a शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम् | 016c गच्छ वै शयनायैव पुरा नान्योऽवबुध्यते ||