001 कीचक उवाच || 001a स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम | 001c स्वामिनी त्वमनुप्राप्ता प्रकुरुष्व मम प्रियम् || 002a सुवर्णमालाः कम्बूश्च कुण्डले परिहाटके | 002c आहरन्तु च वस्त्राणि कौशिकान्यजिनानि च || 003a अस्ति मे शयनं शुभ्रं त्वदर्थमुपकल्पितम् | 003c एहि तत्र मया सार्धं पिबस्व मधुमाधवीम् || 004 द्रौपद्युवाच || 004a अप्रैषीद्राजपुत्री मां सुराहारीं तवान्तिकम् | 004c पानमानय मे क्षिप्रं पिपासा मेति चाब्रवीत् || 005 कीचक उवाच || 005a अन्या भद्रे नयिष्यन्ति राजपुत्र्याः परिस्रुतम् || 006 वैशम्पायन उवाच || 006a इत्येनां दक्षिणे पाणौ सूतपुत्रः परामृशत् | 006c सा गृहीता विधुन्वाना भूमावाक्षिप्य कीचकम् | 006e सभां शरणमाधावद्यत्र राजा युधिष्ठिरः || 007a तां कीचकः प्रधावन्तीं केशपक्षे परामृशत् | 007c अथैनां पश्यतो राज्ञः पातयित्वा पदावधीत् || 008a ततो योऽसौ तदार्केण राक्षसः सन्नियोजितः | 008c स कीचकमपोवाह वातवेगेन भारत || 009a स पपात ततो भूमौ रक्षोबलसमाहतः | 009c विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः || 010a तां चासीनौ ददृशतुर्भीमसेनयुधिष्ठिरौ | 010c अमृष्यमाणौ कृष्णायाः कीचकेन पदा वधम् || 011a तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः | 011c दन्तैर्दन्तांस्तदा रोषान्निष्पिपेष महामनाः || 012a अथाङ्गुष्ठेनावमृद्नादङ्गुष्ठं तस्य धर्मराट् | 012c प्रबोधनभयाद्राजन्भीमस्य प्रत्यषेधयत् || 013a सा सभाद्वारमासाद्य रुदती मत्स्यमब्रवीत् | 013c अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः || 014a आकारमभिरक्षन्ती प्रतिज्ञां धर्मसंहिताम् | 014c दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा || 015 द्रौपद्युवाच || 015a येषां वैरी न स्वपिति पदा भूमिमुपस्पृशन् | 015c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् || 016a ये दद्युर्न च याचेयुर्ब्रह्मण्याः सत्यवादिनः | 016c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् || 017a येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयतेऽनिशम् | 017c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् || 018a ये ते तेजस्विनो दान्ता बलवन्तोऽभिमानिनः | 018c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् || 019a सर्वलोकमिमं हन्युर्धर्मपाशसितास्तु ये | 019c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् || 020a शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम् 020c चरन्ति लोके प्रच्छन्नाः क्व नु तेऽद्य महारथाः 021a कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम् 021c मर्षयन्ति यथा क्लीबा बलवन्तोऽमितौजसः 022a क्व नु तेषाममर्षश्च वीर्यं तेजश्च वर्तते 022c न परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना 023a मयात्र शक्यं किं कर्तुं विराटे धर्मदूषणम् 023c यः पश्यन्मां मर्षयति वध्यमानामनागसम् 024a न राजन्राजवत्किञ्चित्समाचरसि कीचके 024c दस्यूनामिव धर्मस्ते न हि संसदि शोभते 025a न कीचकः स्वधर्मस्थो न च मत्स्यः कथञ्चन | 025c सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते || 026a नोपालभे त्वां नृपते विराट जनसंसदि | 026c नाहमेतेन युक्ता वै हन्तुं मत्स्य तवान्तिके | 026e सभासदस्तु पश्यन्तु कीचकस्य व्यतिक्रमम् || 027 विराट उवाच || 027a परोक्षं नाभिजानामि विग्रहं युवयोरहम् | 027c अर्थतत्त्वमविज्ञाय किं नु स्यात्कुशलं मम || 028 वैशम्पायन उवाच || 028a ततस्तु सभ्या विज्ञाय कृष्णां भूयोऽभ्यपूजयन् | 028c साधु साध्विति चाप्याहुः कीचकं च व्यगर्हयन् || 029 सभ्या ऊचुः || 029a यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा | 029c परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन || 030 वैशम्पायन उवाच || 030a एवं सम्पूजयंस्तत्र कृष्णां प्रेक्ष्य सभासदः | 030c युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आसजत् || 031a अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् | 031c गच्छ सैरन्ध्रि मात्र स्थाः सुदेष्णाया निवेशनम् || 032a भर्तारमनुरुध्यन्त्यः क्लिश्यन्ते वीरपत्नयः | 032c शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत || 033a मन्ये न कालं क्रोधस्य पश्यन्ति पतयस्तव | 033c तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः || 034a अकालज्ञासि सैरन्ध्रि शैलूषीव विधावसि | 034c विघ्नं करोषि मत्स्यानां दीव्यतां राजसंसदि | 034e गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम् || 035 द्रौपद्युवाच || 035a अतीव तेषां घृणिनामर्थेऽहं धर्मचारिणी | 035c तस्य तस्येह ते वध्या येषां ज्येष्ठोऽक्षदेविता || 036 वैशम्पायन उवाच || 036a इत्युक्त्वा प्राद्रवत्कृष्णा सुदेष्णाया निवेशनम् | 036c केशान्मुक्त्वा तु सुश्रोणी संरम्भाल्लोहितेक्षणा || 037a शुशुभे वदनं तस्या रुदन्त्या विरतं तदा | 037c मेघलेखाविनिर्मुक्तं दिवीव शशिमण्डलम् || 038 सुदेष्णोवाच || 038a कस्त्वावधीद्वरारोहे कस्माद्रोदिषि शोभने | 038c कस्याद्य न सुखं भद्रे केन ते विप्रियं कृतम् || 039 द्रौपद्युवाच || 039a कीचको मावधीत्तत्र सुराहारीं गतां तव | 039c सभायां पश्यतो राज्ञो यथैव विजने तथा || 040 सुदेष्णोवाच || 040a घातयामि सुकेशान्ते कीचकं यदि मन्यसे | 040c योऽसौ त्वां कामसम्मत्तो दुर्लभामभिमन्यते || 041 द्रौपद्युवाच || 041a अन्ये वै तं वधिष्यन्ति येषामागः करोति सः | 041c मन्ये चाद्यैव सुव्यक्तं परलोकं गमिष्यति ||