001 वैशम्पायन उवाच || 001a प्रत्याख्यातो राजपुत्र्या सुदेष्णां कीचकोऽब्रवीत् | 001c अमर्यादेन कामेन घोरेणाभिपरिप्लुतः || 002a यथा कैकेयि सैरन्ध्र्या समेयां तद्विधीयताम् | 002c तां सुदेष्णे परीप्सस्व माहं प्राणान्प्रहासिषम् || 003a तस्य तां बहुशः श्रुत्वा वाचं विलपतस्तदा | 003c विराटमहिषी देवी कृपां चक्रे मनस्विनी || 004a स्वमर्थमभिसन्धाय तस्यार्थमनुचिन्त्य च | 004c उद्वेगं चैव कृष्णायाः सुदेष्णा सूतमब्रवीत् || 005a पर्विणीं त्वं समुद्दिष्य सुरामन्नं च कारय | 005c तत्रैनां प्रेषयिष्यामि सुराहारीं तवान्तिकम् || 006a तत्र सम्प्रेषितामेनां विजने निरवग्रहाम् | 006c सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद्यदि || 007a कीचकस्तु गृहं गत्वा भगिन्या वचनात्तदा | 007c सुरामाहारयामास राजार्हां सुपरिस्रुताम् || 008a आजौरभ्रं च सुभृशं बहूंश्चोच्चावचान्मृगान् | 008c कारयामास कुशलैरन्नपानं सुशोभनम् || 009a तस्मिन्कृते तदा देवी कीचकेनोपमन्त्रिता | 009c सुदेष्णा प्रेषयामास सैरन्ध्रीं कीचकालयम् || 010 सुदेष्णोवाच || 010a उत्तिष्ठ गच्छ सैरन्ध्रि कीचकस्य निवेशनम् | 010c पानमानय कल्याणि पिपासा मां प्रबाधते || 011 द्रौपद्युवाच || 011a न गच्छेयमहं तस्य राजपुत्रि निवेशनम् | 011c त्वमेव राज्ञि जानासि यथा स निरपत्रपः || 012a न चाहमनवद्याङ्गि तव वेश्मनि भामिनि | 012c कामवृत्ता भविष्यामि पतीनां व्यभिचारिणी || 013a त्वं चैव देवि जानासि यथा स समयः कृतः | 013c प्रविशन्त्या मया पूर्वं तव वेश्मनि भामिनि || 014a कीचकश्च सुकेशान्ते मूढो मदनदर्पितः | 014c सोऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शोभने || 015a सन्ति बह्व्यस्तव प्रेष्या राजपुत्रि वशानुगाः | 015c अन्यां प्रेषय भद्रं ते स हि मामवमंस्यते || 016 सुदेष्णोवाच || 016a नैव त्वां जातु हिंस्यात्स इतः सम्प्रेषितां मया || 017 वैशम्पायन उवाच || 017a इत्यस्याः प्रददौ कांस्यं सपिधानं हिरण्मयम् | 017c सा शङ्कमाना रुदती दैवं शरणमीयुषी | 017e प्रातिष्ठत सुराहारी कीचकस्य निवेशनम् || 018 द्रौपद्युवाच || 018a यथाहमन्यं पाण्डुभ्यो नाभिजानामि कञ्चन | 018c तेन सत्येन मां प्राप्तां कीचको मा वशे कृथाः || 019 वैशम्पायन उवाच || 019a उपातिष्ठत सा सूर्यं मुहूर्तमबला ततः | 019c स तस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान् || 020a अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत् | 020c तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् | 021a तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समीपगाम् | 021c उदतिष्ठन्मुदा सूतो नावं लब्ध्वेव पारगः ||