001 जनमेजय उवाच || 001a एवं मत्स्यस्य नगरे वसन्तस्तत्र पाण्डवाः | 001c अत ऊर्ध्वं महावीर्याः किमकुर्वन्त वै द्विज || 002 वैशम्पायन उवाच || 002a एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः | 002c आराधयन्तो राजानं यदकुर्वन्त तच्छृणु || 003a युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः | 003c तथैव च विराटस्य सपुत्रस्य विशां पते || 004a स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः | 004c अक्षवत्यां यथाकामं सूत्रबद्धानिव द्विजान् || 005a अज्ञातं च विराटस्य विजित्य वसु धर्मराट् | 005c भ्रातृभ्यः पुरुषव्याघ्रो यथार्हं स्म प्रयच्छति || 006a भीमसेनोऽपि मांसानि भक्ष्याणि विविधानि च | 006c अतिसृष्टानि मत्स्येन विक्रीणाति युधिष्ठिरे || 007a वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः | 007c विक्रीणानश्च सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति || 008a सहदेवोऽपि गोपानां वेषमास्थाय पाण्डवः | 008c दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति || 009a नकुलोऽपि धनं लब्ध्वा कृते कर्मणि वाजिनाम् | 009c तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति || 010a कृष्णापि सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी | 010c यथा पुनरविज्ञाता तथा चरति भामिनी || 011a एवं सम्पादयन्तस्ते तथान्योन्यं महारथाः | 011c प्रेक्षमाणास्तदा कृष्णामूषुश्छन्ना नराधिप || 012a अथ मासे चतुर्थे तु ब्रह्मणः सुमहोत्सवः | 012c आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसम्मतः || 013a तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः | 013c महाकाया महावीर्याः कालखञ्जा इवासुराः || 014a वीर्योन्नद्धा बलोदग्रा राज्ञा समभिपूजिताः | 014c सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः | 014e असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसन्निधौ || 015a तेषामेको महानासीत्सर्वमल्लान्समाह्वयत् | 015c आवल्गमानं तं रङ्गे नोपतिष्ठति कश्चन || 016a यदा सर्वे विमनसस्ते मल्ला हतचेतसः | 016c अथ सूदेन तं मल्लं योधयामास मत्स्यराट् || 017a चोद्यमानस्ततो भीमो दुःखेनैवाकरोन्मतिम् | 017c न हि शक्नोति विवृते प्रत्याख्यातुं नराधिपम् || 018a ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन् | 018c प्रविवेश महारङ्गं विराटमभिहर्षयन् || 019a बबन्ध कक्ष्यां कौन्तेयस्ततस्तं हर्षयञ्जनम् | 019c ततस्तं वृत्रसङ्काशं भीमो मल्लं समाह्वयत् || 020a तावुभौ सुमहोत्साहावुभौ तीव्रपराक्रमौ | 020c मत्ताविव महाकायौ वारणौ षष्टिहायनौ || 021a चकर्ष दोर्भ्यामुत्पाट्य भीमो मल्लममित्रहा | 021c विनदन्तमभिक्रोशञ्शार्दूल इव वारणम् || 022a तमुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् | 022c ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् || 023a भ्रामयित्वा शतगुणं गतसत्त्वमचेतनम् | 023c प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः || 024a तस्मिन्विनिहते मल्ले जीमूते लोकविश्रुते | 024c विराटः परमं हर्षमगच्छद्बान्धवैः सह || 025a संहर्षात्प्रददौ वित्तं बहु राजा महामनाः | 025c बल्लवाय महारङ्गे यथा वैश्रवणस्तथा || 026a एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् | 026c विनिघ्नन्मत्स्यराजस्य प्रीतिमावहदुत्तमाम् || 027a यदास्य तुल्यः पुरुषो न कश्चित्तत्र विद्यते | 027c ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् || 028a पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः | 028c योध्यते स्म विराटेन सिंहैर्मत्तैर्महाबलैः || 029a बीभत्सुरपि गीतेन सुनृत्तेन च पाण्डवः | 029c विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः || 030a अश्वैर्विनीतैर्जवनैस्तत्र तत्र समागतैः | 030c तोषयामास नकुलो राजानं राजसत्तम || 031a तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु | 031c विनीतान्वृषभान्दृष्ट्वा सहदेवस्य चाभिभो || 032a एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः | 032c कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ||