001 वैशम्पायन उवाच ॥ 001a अथापरोऽदृश्यत पाण्डवः प्रभुर्विराटराज्ञस्तुरगान्समीक्षतः । 001c तमापतन्तं ददृशे पृथग्जनो विमुक्तमभ्रादिव सूर्यमण्डलम् ॥ 002a स वै हयानैक्षत तांस्ततस्ततः समीक्षमाणं च ददर्श मत्स्यराट् । 002c ततोऽब्रवीत्ताननुगानमित्रहा कुतोऽयमायाति नरोऽमरप्रभः ॥ 003a अयं हयान्वीक्षति मामकान्दृढं ध्रुवं हयज्ञो भविता विचक्षणः । 003c प्रवेश्यतामेष समीपमाशु मे विभाति वीरो हि यथामरस्तथा ॥ 004a अभ्येत्य राजानममित्रहाब्रवीज्जयोऽस्तु ते पार्थिव भद्रमस्तु च 004c हयेषु युक्तो नृप सम्मतः सदा तवाश्वसूतो निपुणो भवाम्यहम्॥ 005 विराट उवाच ॥ 005a ददामि यानानि धनं निवेशनं ममाश्वसूतो भवितुं त्वमर्हसि । 005c कुतोऽसि कस्यासि कथं त्वमागतः प्रब्रूहि शिल्पं तव विद्यते च यत् ॥ 006 नकुल उवाच ॥ 006a पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः । 006c तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन ॥ 007a अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः । 007c दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् ॥ 008a न कातरं स्यान्मम जातु वाहनं न मेऽस्ति दुष्टा वडवा कुतो हयाः । 008c जनस्तु मामाह स चापि पाण्डवो युधिष्ठिरो ग्रन्थिकमेव नामतः ॥ 009 विराट उवाच ॥ 009a यदस्ति किञ्चिन्मम वाजिवाहनं तदस्तु सर्वं त्वदधीनमद्य वै । 009c ये चापि केचिन्मम वाजियोजकास्त्वदाश्रयाः सारथयश्च सन्तु मे ॥ 010a इदं तवेष्टं यदि वै सुरोपम ब्रवीहि यत्ते प्रसमीक्षितं वसु । 010c न तेऽनुरूपं हयकर्म विद्यते प्रभासि राजेव हि सम्मतो मम ॥ 011a युधिष्ठिरस्येव हि दर्शनेन मे समं तवेदं प्रियदर्श दर्शनम् । 011c कथं तु भृत्यैः स विनाकृतो वने वसत्यनिन्द्यो रमते च पाण्डवः ॥ 012 वैशम्पायन उवाच ॥ 012a तथा स गन्धर्ववरोपमो युवा विराटराज्ञा मुदितेन पूजितः । 012c न चैनमन्येऽपि विदुः कथञ्चन प्रियाभिरामं विचरन्तमन्तरा ॥ 013a एवं हि मत्स्ये न्यवसन्त पाण्डवा यथाप्रतिज्ञाभिरमोघदर्शनाः । 013c अज्ञातचर्यां व्यचरन्समाहिताः समुद्रनेमीपतयोऽतिदुःखिताः ॥