04010001 वैशम्पायन उवाच || 04010001a अथापरोऽदृश्यत रूपसम्पदा स्त्रीणामलङ्कारधरो बृहत्पुमान् | 04010001c प्राकारवप्रे प्रतिमुच्य कुण्डले दीर्घे च कम्बू परिहाटके शुभे || 04010002a बहूंश्च दीर्घांश्च विकीर्य मूर्धजान्महाभुजो वारणमत्तविक्रमः | 04010002c गतेन भूमिमभिकम्पयंस्तदा विराटमासाद्य सभासमीपतः || 04010003a तं प्रेक्ष्य राजोपगतं सभातले सत्रप्रतिच्छन्नमरिप्रमाथिनम् | 04010003c विराजमानं परमेण वर्चसा सुतं महेन्द्रस्य गजेन्द्रविक्रमम् || 04010004a सर्वानपृच्छच्च समीपचारिणः कुतोऽयमायाति न मे पुरा श्रुतः | 04010004c न चैनमूचुर्विदितं तदा नराः सविस्मितं वाक्यमिदं नृपोऽब्रवीत् || 04010005a सर्वोपपन्नः पुरुषो मनोरमः श्यामो युवा वारणयूथपोपमः | 04010005c विमुच्य कम्बू परिहाटके शुभे विमुच्य वेणीमपिनह्य कुण्डले || 04010006a शिखी सुकेशः परिधाय चान्यथा भवस्व धन्वी कवची शरी तथा | 04010006c आरुह्य यानं परिधावतां भवान्सुतैः समो मे भव वा मया समः || 04010007a वृद्धो ह्यहं वै परिहारकामः सर्वान्मत्स्यांस्तरसा पालयस्व | 04010007c नैवंविधाः क्लीबरूपा भवन्ति कथञ्चनेति प्रतिभाति मे मनः || 04010008 अर्जुन उवाच || 04010008a गायामि नृत्याम्यथ वादयामि भद्रोऽस्मि नृत्ते कुशलोऽस्मि गीते | 04010008c त्वमुत्तरायाः परिदत्स्व मां स्वयं भवामि देव्या नरदेव नर्तकः || 04010009a इदं तु रूपं मम येन किं नु तत्प्रकीर्तयित्वा भृशशोकवर्धनम् | 04010009c बृहन्नडां वै नरदेव विद्धि मां सुतं सुतां वा पितृमातृवर्जिताम् || 04010010 विराट उवाच || 04010010a ददामि ते हन्त वरं बृहन्नडे सुतां च मे नर्तय याश्च तादृशीः | 04010010c इदं तु ते कर्म समं न मे मतं समुद्रनेमिं पृथिवीं त्वमर्हसि || 04010011 वैशम्पायन उवाच || 04010011a बृहन्नडां तामभिवीक्ष्य मत्स्यराट्कलासु नृत्ते च तथैव वादिते | 04010011c अपुंस्त्वमप्यस्य निशम्य च स्थिरं ततः कुमारीपुरमुत्ससर्ज तम् || 04010012a स शिक्षयामास च गीतवादितं सुतां विराटस्य धनञ्जयः प्रभुः | 04010012c सखीश्च तस्याः परिचारिकास्तथा प्रियश्च तासां स बभूव पाण्डवः || 04010013a तथा स सत्रेण धनञ्जयोऽवसत्प्रियाणि कुर्वन्सह ताभिरात्मवान् | 04010013c तथागतं तत्र न जज्ञिरे जना बहिश्चरा वाप्यथवान्तरेचराः ||