04009001 वैशम्पायन उवाच || 04009001a सहदेवोऽपि गोपानां कृत्वा वेषमनुत्तमम् | 04009001c भाषां चैषां समास्थाय विराटमुपयादथ || 04009002a तमायान्तमभिप्रेक्ष्य भ्राजमानं नरर्षभम् | 04009002c समुपस्थाय वै राजा पप्रच्छ कुरुनन्दनम् || 04009003a कस्य वा त्वं कुतो वा त्वं किं वा तात चिकीर्षसि | 04009003c न हि मे दृष्टपूर्वस्त्वं तत्त्वं ब्रूहि नरर्षभ || 04009004a स प्राप्य राजानममित्रतापनस्ततोऽब्रवीन्मेघमहौघनिःस्वनः | 04009004c वैश्योऽस्मि नाम्नाहमरिष्टनेमिर्गोसङ्ख्य आसं कुरुपुङ्गवानाम् || 04009005a वस्तुं त्वयीच्छामि विशां वरिष्ठ तान्राजसिंहान्न हि वेद्मि पार्थान् | 04009005c न शक्यते जीवितुमन्यकर्मणा न च त्वदन्यो मम रोचते नृपः || 04009006 विराट उवाच || 04009006a त्वं ब्राह्मणो यदि वा क्षत्रियोऽसि समुद्रनेमीश्वररूपवानसि | 04009006c आचक्ष्व मे तत्त्वममित्रकर्शन न वैश्यकर्म त्वयि विद्यते समम् || 04009007a कस्यासि राज्ञो विषयादिहागतः किं चापि शिल्पं तव विद्यते कृतम् | 04009007c कथं त्वमस्मासु निवत्स्यसे सदा वदस्व किं चापि तवेह वेतनम् || 04009008 सहदेव उवाच || 04009008a पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः | 04009008c तस्याष्टशतसाहस्रा गवां वर्गाः शतं शताः || 04009009a अपरे दशसाहस्रा द्विस्तावन्तस्तथापरे | 04009009c तेषां गोसङ्ख्य आसं वै तन्तिपालेति मां विदुः || 04009010a भूतं भव्यं भविष्यच्च यच्च सङ्ख्यागतं क्वचित् | 04009010c न मेऽस्त्यविदितं किञ्चित्समन्ताद्दशयोजनम् || 04009011a गुणाः सुविदिता ह्यासन्मम तस्य महात्मनः | 04009011c आसीच्च स मया तुष्टः कुरुराजो युधिष्ठिरः || 04009012a क्षिप्रं हि गावो बहुला भवन्ति न तासु रोगो भवतीह कश्चित् | 04009012c तैस्तैरुपायैर्विदितं मयैतदेतानि शिल्पानि मयि स्थितानि || 04009013a वृषभांश्चापि जानामि राजन्पूजितलक्षणान् | 04009013c येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते || 04009014 विराट उवाच || 04009014a शतं सहस्राणि समाहितानि वर्णस्य वर्णस्य विनिश्चिता गुणैः | 04009014c पशून्सपालान्भवते ददाम्यहं त्वदाश्रया मे पशवो भवन्त्विह || 04009015 वैशम्पायन उवाच || 04009015a तथा स राज्ञोऽविदितो विशां पते उवास तत्रैव सुखं नरेश्वरः | 04009015c न चैनमन्येऽपि विदुः कथञ्चन प्रादाच्च तस्मै भरणं यथेप्सितम् ||