04008001 वैशम्पायन उवाच || 04008001a ततः केशान्समुत्क्षिप्य वेल्लिताग्राननिन्दितान् | 04008001c जुगूह दक्षिणे पार्श्वे मृदूनसितलोचना || 04008002a वासश्च परिधायैकं कृष्णं सुमलिनं महत् | 04008002c कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् || 04008003a तां नराः परिधावन्तीं स्त्रियश्च समुपाद्रवन् | 04008003c अपृच्छंश्चैव तां दृष्ट्वा का त्वं किं च चिकीर्षसि || 04008004a सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता | 04008004c कर्म चेच्छामि वै कर्तुं तस्य यो मां पुपुक्षति || 04008005a तस्या रूपेण वेषेण श्लक्ष्णया च तथा गिरा | 04008005c नाश्रद्दधत तां दासीमन्नहेतोरुपस्थिताम् || 04008006a विराटस्य तु कैकेयी भार्या परमसम्मता | 04008006c अवलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम् || 04008007a सा समीक्ष्य तथारूपामनाथामेकवाससम् | 04008007c समाहूयाब्रवीद्भद्रे का त्वं किं च चिकीर्षसि || 04008008a सा तामुवाच राजेन्द्र सैरन्ध्र्यहमुपागता | 04008008c कर्म चेच्छाम्यहं कर्तुं तस्य यो मां पुपुक्षति || 04008009 सुदेष्णोवाच || 04008009a नैवंरूपा भवन्त्येवं यथा वदसि भामिनि | 04008009c प्रेषयन्ति च वै दासीर्दासांश्चैवंविधान्बहून् || 04008010a गूढगुल्फा संहतोरुस्त्रिगम्भीरा षडुन्नता | 04008010c रक्ता पञ्चसु रक्तेषु हंसगद्गदभाषिणी || 04008011a सुकेशी सुस्तनी श्यामा पीनश्रोणिपयोधरा | 04008011c तेन तेनैव सम्पन्ना काश्मीरीव तुरङ्गमा || 04008012a स्वरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा | 04008012c कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना || 04008013a का त्वं ब्रूहि यथा भद्रे नासि दासी कथञ्चन | 04008013c यक्षी वा यदि वा देवी गन्धर्वी यदि वाप्सराः || 04008014a अलम्बुसा मिश्रकेशी पुण्डरीकाथ मालिनी | 04008014c इन्द्राणी वारुणी वा त्वं त्वष्टुर्धातुः प्रजापतेः | 04008014e देव्यो देवेषु विख्यातास्तासां त्वं कतमा शुभे || 04008015 द्रौपद्युवाच || 04008015a नास्मि देवी न गन्धर्वी नासुरी न च राक्षसी | 04008015c सैरन्ध्री तु भुजिष्यास्मि सत्यमेतद्ब्रवीमि ते || 04008016a केशाञ्जानाम्यहं कर्तुं पिंषे साधु विलेपनम् | 04008016c ग्रथयिष्ये विचित्राश्च स्रजः परमशोभनाः || 04008017a आराधयं सत्यभामां कृष्णस्य महिषीं प्रियाम् | 04008017c कृष्णां च भार्यां पाण्डूनां कुरूणामेकसुन्दरीम् || 04008018a तत्र तत्र चराम्येवं लभमाना सुशोभनम् | 04008018c वासांसि यावच्च लभे तावत्तावद्रमे तथा || 04008019a मालिनीत्येव मे नाम स्वयं देवी चकार सा | 04008019c साहमभ्यागता देवि सुदेष्णे त्वन्निवेशनम् || 04008020 सुदेष्णोवाच || 04008020a मूर्ध्नि त्वां वासयेयं वै संशयो मे न विद्यते | 04008020c नो चेदिह तु राजा त्वां गच्छेत्सर्वेण चेतसा || 04008021a स्त्रियो राजकुले पश्य याश्चेमा मम वेश्मनि | 04008021c प्रसक्तास्त्वां निरीक्षन्ते पुमांसं कं न मोहयेः || 04008022a वृक्षांश्चावस्थितान्पश्य य इमे मम वेश्मनि | 04008022c तेऽपि त्वां सन्नमन्तीव पुमांसं कं न मोहयेः || 04008023a राजा विराटः सुश्रोणि दृष्ट्वा वपुरमानुषम् | 04008023c विहाय मां वरारोहे त्वां गच्छेत्सर्वचेतसा || 04008024a यं हि त्वमनवद्याङ्गि नरमायतलोचने | 04008024c प्रसक्तमभिवीक्षेथाः स कामवशगो भवेत् || 04008025a यश्च त्वां सततं पश्येत्पुरुषश्चारुहासिनि | 04008025c एवं सर्वानवद्याङ्गि स चानङ्गवशो भवेत् || 04008026a यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः | 04008026c तथाविधमहं मन्ये वासं तव शुचिस्मिते || 04008027 द्रौपद्युवाच || 04008027a नास्मि लभ्या विराटेन न चान्येन कथञ्चन | 04008027c गन्धर्वाः पतयो मह्यं युवानः पञ्च भामिनि || 04008028a पुत्रा गन्धर्वराजस्य महासत्त्वस्य कस्यचित् | 04008028c रक्षन्ति ते च मां नित्यं दुःखाचारा तथा न्वहम् || 04008029a यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत् | 04008029c प्रीयेयुस्तेन वासेन गन्धर्वाः पतयो मम || 04008030a यो हि मां पुरुषो गृध्येद्यथान्याः प्राकृतस्त्रियः | 04008030c तामेव स ततो रात्रिं प्रविशेदपरां तनुम् || 04008031a न चाप्यहं चालयितुं शक्या केनचिदङ्गने | 04008031c दुःखशीला हि गन्धर्वास्ते च मे बलवत्तराः || 04008032 सुदेष्णोवाच || 04008032a एवं त्वां वासयिष्यामि यथा त्वं नन्दिनीच्छसि | 04008032c न च पादौ न चोच्छिष्टं स्प्रक्ष्यसि त्वं कथञ्चन || 04008033 वैशम्पायन उवाच || 04008033a एवं कृष्णा विराटस्य भार्यया परिसान्त्विता | 04008033c न चैनां वेद तत्रान्यस्तत्त्वेन जनमेजय ||