वैशम्पायन उवाच || 001
अथापरो भीमबलः श्रिया ज्वलन्नुपाययौ सिंहविलासविक्रमः | 001a
खजं च दर्वीं च करेण धारयन्नसिं च कालाङ्गमकोशमव्रणम् || 001c
स सूदरूपः परमेण वर्चसा रविर्यथा लोकमिमं प्रभासयन् | 002a
सुकृष्णवासा गिरिराजसारवान्स मत्स्यराजं समुपेत्य तस्थिवान् || 002c
तं प्रेक्ष्य राजा वरयन्नुपागतं ततोऽब्रवीज्जानपदान्समागतान् | 003a
सिंहोन्नतांसोऽयमतीव रूपवान्प्रदृश्यते को नु नरर्षभो युवा || 003c
अदृष्टपूर्वः पुरुषो रविर्यथा वितर्कयन्नास्य लभामि सम्पदम् | 004a
तथास्य चित्तं ह्यपि संवितर्कयन्नरर्षभस्याद्य न यामि तत्त्वतः || 004c
ततो विराटं समुपेत्य पाण्डवः सुदीनरूपो वचनं महामनाः | 005a
उवाच सूदोऽस्मि नरेन्द्र बल्लवो भजस्व मां व्यञ्जनकारमुत्तमम् || 005c
विराट उवाच || 006
न सूदतां मानद श्रद्दधामि ते सहस्रनेत्रप्रतिमो हि दृश्यसे | 006a
श्रिया च रूपेण च विक्रमेण च प्रभासि तातानवरो नरेष्विह || 006c
भीम उवाच || 007
नरेन्द्र सूदः परिचारकोऽस्मि ते जानामि सूपान्प्रथमेन केवलान् | 007a
आस्वादिता ये नृपते पुराभवन्युधिष्ठिरेणापि नृपेण सर्वशः || 007c
बलेन तुल्यश्च न विद्यते मया नियुद्धशीलश्च सदैव पार्थिव | 008a
गजैश्च सिंहैश्च समेयिवानहं सदा करिष्यामि तवानघ प्रियम् || 008c
विराट उवाच || 009
ददामि ते हन्त वरं महानसे तथा च कुर्याः कुशलं हि भाषसे | 009a
न चैव मन्ये तव कर्म तत्समं समुद्रनेमिं पृथिवीं त्वमर्हसि || 009c
यथा हि कामस्तव तत्तथा कृतं महानसे त्वं भव मे पुरस्कृतः | 010a
नराश्च ये तत्र ममोचिताः पुरा भवस्व तेषामधिपो मया कृतः || 010c
वैशम्पायन उवाच || 011
तथा स भीमो विहितो महानसे विराटराज्ञो दयितोऽभवद्दृढम् | 011a
उवास राजन्न च तं पृथग्जनो बुबोध तत्रानुचरश्च कश्चन || 011c