001 वैशम्पायन उवाच 001a ततो विराटं प्रथमं युधिष्ठिरो राजा सभायामुपविष्टमाव्रजत् | 001c वैडूर्यरूपान्प्रतिमुच्य काञ्चना नक्षान्स कक्षे परिगृह्य वाससा || 002a नराधिपो राष्ट्रपतिं यशस्विनं महायशाः कौरववंशवर्धनः | 002c महानुभावो नरराजसत्कृतो दुरासदस्तीक्ष्णविषो यथोरगः || 003a बालेन रूपेण नरर्षभो महानथार्चिरूपेण यथामरस्तथा | 003c महाभ्रजालैरिव संवृतो रविर्यथानलो भस्मवृतश्च वीर्यवान् || 004a तमापतन्तं प्रसमीक्ष्य पाण्डवं विराटराडिन्दुमिवाभ्रसंवृतम् | 004c मन्त्रिद्विजान्सूतमुखान्विशस्तथा ये चापि केचित्परिषत्समासते | 004e पप्रच्छ कोऽयं प्रथमं समेयिवाननेन योऽयं प्रसमीक्षते सभाम् || 005a न तु द्विजोऽयं भविता नरोत्तमः पतिः पृथिव्या इति मे मनोगतम् | 005c न चास्य दासो न रथो न कुण्डले समीपतो भ्राजति चायमिन्द्रवत् || 006a शरीरलिङ्गैरुपसूचितो ह्ययं मूर्धाभिषिक्तोऽयमितीव मानसम् | 006c समीपमायाति च मे गतव्यथो यथा गजस्तामरसीं मदोत्कटः || 007a वितर्कयन्तं तु नरर्षभस्तदा युधिष्ठिरोऽभ्येत्य विराटमब्रवीत् | 007c सम्राड्विजानात्विह जीवितार्थिनं विनष्टसर्वस्वमुपागतं द्विजम् || 008a इहाहमिच्छामि तवानघान्तिके वस्तुं यथा कामचरस्तथा विभो | 008c तमब्रवीत्स्वागतमित्यनन्तरं राजा प्रहृष्टः प्रतिसङ्गृहाण च || 009a कामेन ताताभिवदाम्यहं त्वां कस्यासि राज्ञो विषयादिहागतः | 009c गोत्रं च नामापि च शंस तत्त्वतः किं चापि शिल्पं तव विद्यते कृतम् || 010 युधिष्ठिर उवाच || 010a युधिष्ठिरस्यासमहं पुरा सखा वैयाघ्रपद्यः पुनरस्मि ब्राह्मणः | 010c अक्षान्प्रवप्तुं कुशलोऽस्मि देविता कङ्केति नाम्नास्मि विराट विश्रुतः || 011 विराट उवाच || 011a ददामि ते हन्त वरं यमिच्छसि प्रशाधि मत्स्यान्वशगो ह्यहं तव | 011c प्रिया हि धूर्ता मम देविनः सदा भवांश्च देवोपम राज्यमर्हति || 012 युधिष्ठिर उवाच || 012a आप्तो विवादः परमो विशां पते न विद्यते किञ्चन मत्स्य हीनतः | 012c न मे जितः कश्चन धारयेद्धनं वरो ममैषोऽस्तु तव प्रसादतः || 013 विराट उवाच || 013a हन्यामवध्यं यदि तेऽप्रियं चरेत्प्रव्राजयेयं विषयाद्द्विजांस्तथा | 013c शृण्वन्तु मे जानपदाः समागताः कङ्को यथाहं विषये प्रभुस्तथा || 014a समानयानो भवितासि मे सखा प्रभूतवस्त्रो बहुपानभोजनः | 014c पश्येस्त्वमन्तश्च बहिश्च सर्वदा कृतं च ते द्वारमपावृतं मया || 015a ये त्वानुवादेयुरवृत्तिकर्शिता ब्रूयाश्च तेषां वचनेन मे सदा | 015c दास्यामि सर्वं तदहं न संशयो न ते भयं विद्यति सन्निधौ मम || 016 वैशम्पायन उवाच || 016a एवं स लब्ध्वा तु वरं समागमं विराटराजेन नरर्षभस्तदा | 016c उवास वीरः परमार्चितः सुखी न चापि कश्चिच्चरितं बुबोध तत् ||