001 वैशम्पायन उवाच || 001a ते वीरा बद्धनिस्त्रिंशास्ततायुधकलापिनः | 001c बद्धगोधाङ्गुलित्राणाः कालिन्दीमभितो ययुः || 002a ततस्ते दक्षिणं तीरमन्वगच्छन्पदातयः | 002c वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः || 003a विध्यन्तो मृगजातानि महेष्वासा महाबलाः | 003c उत्तरेण दशार्णांस्ते पाञ्चालान्दक्षिणेन तु || 004a अन्तरेण यकृल्लोमाञ्शूरसेनांश्च पाण्डवाः | 004c लुब्धा ब्रुवाणा मत्स्यस्य विषयं प्राविशन्वनात् || 005a ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत् | 005c पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च || 006a व्यक्तं दूरे विराटस्य राजधानी भविष्यति | 006c वसामेह परां रात्रिं बलवान्मे परिश्रमः || 007 युधिष्ठिर उवाच || 007a धनञ्जय समुद्यम्य पाञ्चालीं वह भारत | 007c राजधान्यां निवत्स्यामो विमुक्ताश्च वनादितः || 008 वैशम्पायन उवाच || 008a तामादायार्जुनस्तूर्णं द्रौपदीं गजराडिव | 008c सम्प्राप्य नगराभ्याशमवतारयदर्जुनः || 009a स राजधानीं सम्प्राप्य कौन्तेयोऽर्जुनमब्रवीत् | 009c क्वायुधानि समासज्य प्रवेक्ष्यामः पुरं वयम् || 010a सायुधाश्च वयं तात प्रवेक्ष्यामः पुरं यदि | 010c समुद्वेगं जनस्यास्य करिष्यामो न संशयः || 011a ततो द्वादश वर्षाणि प्रवेष्टव्यं वनं पुनः | 011c एकस्मिन्नपि विज्ञाते प्रतिज्ञातं हि नस्तथा || 012 अर्जुन उवाच || 012a इयं कूटे मनुष्येन्द्र गहना महती शमी | 012c भीमशाखा दुरारोहा श्मशानस्य समीपतः || 013a न चापि विद्यते कश्चिन्मनुष्य इह पार्थिव | 013c उत्पथे हि वने जाता मृगव्यालनिषेविते || 014a समासज्यायुधान्यस्यां गच्छामो नगरं प्रति | 014c एवमत्र यथाजोषं विहरिष्याम भारत || 015 वैशम्पायन उवाच || 015a एवमुक्त्वा स राजानं धर्मात्मानं युधिष्ठिरम् | 015c प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ || 016a येन देवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत् | 016c स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः || 017a तदुदारं महाघोषं सपत्नगणसूदनम् | 017c अपज्यमकरोत्पार्थो गाण्डीवमभयङ्करम् || 018a येन वीरः कुरुक्षेत्रमभ्यरक्षत्परन्तपः | 018c अमुञ्चद्धनुषस्तस्य ज्यामक्षय्यां युधिष्ठिरः || 019a पाञ्चालान्येन सङ्ग्रामे भीमसेनोऽजयत्प्रभुः | 019c प्रत्यषेधद्बहूनेकः सपत्नांश्चैव दिग्जये || 020a निशम्य यस्य विस्फारं व्यद्रवन्त रणे परे | 020c पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव || 021a सैन्धवं येन राजानं परामृषत चानघ | 021c ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् || 022a अजयत्पश्चिमामाशां धनुषा येन पाण्डवः | 022c तस्य मौर्वीमपाकर्षच्छूरः सङ्क्रन्दनो युधि || 023a दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः | 023c अपज्यमकरोद्वीरः सहदेवस्तदायुधम् || 024a खड्गांश्च पीतान्दीर्घांश्च कलापांश्च महाधनान् | 024c विपाठान्क्षुरधारांश्च धनुर्भिर्निदधुः सह || 025a तामुपारुह्य नकुलो धनूंषि निदधत्स्वयम् | 025c यानि तस्यावकाशानि दृढरूपाण्यमन्यत || 026a यत्र चापश्यत स वै तिरो वर्षाणि वर्षति | 026c तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत || 027a शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः | 027c विवर्जयिष्यन्ति नरा दूरादेव शमीमिमाम् | 027e आबद्धं शवमत्रेति गन्धमाघ्राय पूतिकम् || 028a अशीतिशतवर्षेयं माता न इति वादिनः | 028c कुलधर्मोऽयमस्माकं पूर्वैराचरितोऽपि च | 028e समासजाना वृक्षेऽस्मिन्निति वै व्याहरन्ति ते || 029a आ गोपालाविपालेभ्य आचक्षाणाः परन्तपाः | 029c आजग्मुर्नगराभ्याशं पार्थाः शत्रुनिबर्हणाः || 030a जयो जयन्तो विजयो जयत्सेनो जयद्बलः | 030c इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः || 031a ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत् | 031c अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् ||