001 युधिष्ठिर उवाच || 001a कर्माण्युक्तानि युष्माभिर्यानि तानि करिष्यथ | 001c मम चापि यथाबुद्धि रुचितानि विनिश्चयात् || 002a पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु | 002c सूदपौरोगवैः सार्धं द्रुपदस्य निवेशने || 003a इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् | 003c यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः || 004a इमाश्च नार्यो द्रौपद्याः सर्वशः परिचारिकाः | 004c पाञ्चालानेव गच्छन्तु सूदपौरोगवैः सह || 005a सर्वैरपि च वक्तव्यं न प्रज्ञायन्त पाण्डवाः | 005c गता ह्यस्मानपाकीर्य सर्वे द्वैतवनादिति || 006 धौम्य उवाच || 006a विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः | 006c अतोऽहमपि वक्ष्यामि हेतुमात्रं निबोधत || 007a हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः | 007c यथा राजकुलं प्राप्य चरन्प्रेष्यो न रिष्यति || 008a दुर्वसं त्वेव कौरव्या जानता राजवेश्मनि | 008c अमानितैः सुमानार्हा अज्ञातैः परिवत्सरम् || 009a दिष्टद्वारो लभेद्द्वारं न च राजसु विश्वसेत् | 009c तदेवासनमन्विच्छेद्यत्र नाभिषजेत्परः || 010a नास्य यानं न पर्यङ्कं न पीठं न गजं रथम् | 010c आरोहेत्सम्मतोऽस्मीति स राजवसतिं वसेत् || 011a अथ यत्रैनमासीनं शङ्केरन्दुष्टचारिणः | 011c न तत्रोपविशेज्जातु स राजवसतिं वसेत् || 012a न चानुशिष्येद्राजानमपृच्छन्तं कदाचन | 012c तूष्णीं त्वेनमुपासीत काले समभिपूजयन् || 013a असूयन्ति हि राजानो जनाननृतवादिनः | 013c तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा || 014a नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कथञ्चन | 014c अन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये || 015a विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि | 015c एवं विचरतो राज्ञो न क्षतिर्जायते क्वचित् || 016a यत्नाच्चोपचरेदेनमग्निवद्देववच्च ह | 016c अनृतेनोपचीर्णो हि हिंस्यादेनमसंशयम् || 017a यच्च भर्तानुयुञ्जीत तदेवाभ्यनुवर्तयेत् | 017c प्रमादमवहेलां च कोपं च परिवर्जयेत् || 018a समर्थनासु सर्वासु हितं च प्रियमेव च | 018c संवर्णयेत्तदेवास्य प्रियादपि हितं वदेत् || 019a अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च | 019c अप्रियं चाहितं यत्स्यात्तदस्मै नानुवर्णयेत् || 020a नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितः | 020c अप्रमत्तश्च यत्तश्च हितं कुर्यात्प्रियं च यत् || 021a नास्यानिष्टानि सेवेत नाहितैः सह संवसेत् | 021c स्वस्थानान्न विकम्पेत स राजवसतिं वसेत् || 022a दक्षिणं वाथ वामं वा पार्श्वमासीत पण्डितः | 022c रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद्विधीयते | 022e नित्यं विप्रतिषिद्धं तु पुरस्तादासनं महत् || 023a न च सन्दर्शने किञ्चित्प्रवृद्धमपि सञ्जपेत् | 023c अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम् || 024a न मृषाभिहितं राज्ञो मनुष्येषु प्रकाशयेत् 024c यं चासूयन्ति राजानः पुरुषं न वदेच्च तम् 025a शूरोऽस्मीति न दृप्तः स्याद्बुद्धिमानिति वा पुनः | 025c प्रियमेवाचरन्राज्ञः प्रियो भवति भोगवान् || 026a ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः | 026c अप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च || 027a यस्य कोपो महाबाधः प्रसादश्च महाफलः | 027c कस्तस्य मनसापीच्छेदनर्थं प्राज्ञसम्मतः || 028a न चोष्ठौ निर्भुजेज्जातु न च वाक्यं समाक्षिपेत् | 028c सदा क्षुतं च वातं च ष्ठीवनं चाचरेच्छनैः || 029a हास्यवस्तुषु चाप्यस्य वर्तमानेषु केषुचित् | 029c नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत् || 030a न चातिधैर्येण चरेद्गुरुतां हि व्रजेत्तथा | 030c स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् || 031a लाभे न हर्षयेद्यस्तु न व्यथेद्योऽवमानितः | 031c असम्मूढश्च यो नित्यं स राजवसतिं वसेत् || 032a राजानं राजपुत्रं वा संवर्तयति यः सदा | 032c अमात्यः पण्डितो भूत्वा स चिरं तिष्ठति श्रियम् || 033a प्रगृहीतश्च योऽमात्यो निगृहीतश्च कारणैः | 033c न निर्बध्नाति राजानं लभते प्रग्रहं पुनः || 034a प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः | 034c उपजीवी भवेद्राज्ञो विषये चापि यो वसेत् || 035a अमात्यो हि बलाद्भोक्तुं राजानं प्रार्थयेत्तु यः | 035c न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम् || 036a श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत् | 036c विशेषयेन्न राजानं योग्याभूमिषु सर्वदा || 037a अम्लानो बलवाञ्शूरश्छायेवानपगः सदा | 037c सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् || 038a अन्यस्मिन्प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत् | 038c अहं किं करवाणीति स राजवसतिं वसेत् || 039a उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा | 039c आदिष्टो न विकल्पेत स राजवसतिं वसेत् || 040a यो वै गृहेभ्यः प्रवसन्प्रियाणां नानुसंस्मरेत् | 040c दुःखेन सुखमन्विच्छेत्स राजवसतिं वसेत् || 041a समवेषं न कुर्वीत नात्युच्चैः सन्निधौ हसेत् | 041c मन्त्रं न बहुधा कुर्यादेवं राज्ञः प्रियो भवेत् || 042a न कर्मणि नियुक्तः सन्धनं किञ्चिदुपस्पृशेत् | 042c प्राप्नोति हि हरन्द्रव्यं बन्धनं यदि वा वधम् || 043a यानं वस्त्रमलङ्कारं यच्चान्यत्सम्प्रयच्छति | 043c तदेव धारयेन्नित्यमेवं प्रियतरो भवेत् || 044a संवत्सरमिमं तात तथाशीला बुभूषवः | 044c अथ स्वविषयं प्राप्य यथाकामं चरिष्यथ || 045 युधिष्ठिर उवाच || 045a अनुशिष्टाः स्म भद्रं ते नैतद्वक्तास्ति कश्चन | 045c कुन्तीमृते मातरं नो विदुरं च महामतिम् || 046a यदेवानन्तरं कार्यं तद्भवान्कर्तुमर्हति | 046c तारणायास्य दुःखस्य प्रस्थानाय जयाय च || 047 वैशम्पायन उवाच || 047a एवमुक्तस्ततो राज्ञा धौम्योऽथ द्विजसत्तमः | 047c अकरोद्विधिवत्सर्वं प्रस्थाने यद्विधीयते || 048a तेषां समिध्य तानग्नीन्मन्त्रवच्च जुहाव सः | 048c समृद्धिवृद्धिलाभाय पृथिवीविजयाय च || 049a अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च तपोधनान् | 049c याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः ||