जनमेजय उवाच || 001
कथं विराटनगरे मम पूर्वपितामहाः | 001a
अज्ञातवासमुषिता दुर्योधनभयार्दिताः || 001c
वैशम्पायन उवाच || 002
तथा तु स वराल्ँलब्ध्वा धर्माद्धर्मभृतां वरः | 002a
गत्वाश्रमं ब्राह्मणेभ्य आचख्यौ सर्वमेव तत् || 002c
कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः | 003a
अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत् || 003c
ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः | 004a
सन्निवर्त्यानुजान्सर्वानिति होवाच भारत || 004c
द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम् | 005a
त्रयोदशोऽयं सम्प्राप्तः कृच्छ्रः परमदुर्वसः || 005c
स साधु कौन्तेय इतो वासमर्जुन रोचय | 006a
यत्रेमा वसतीः सर्वा वसेमाविदिताः परैः || 006c
अर्जुन उवाच || 007
तस्यैव वरदानेन धर्मस्य मनुजाधिप | 007a
अज्ञाता विचरिष्यामो नराणां भरतर्षभ || 007c
किं तु वासाय राष्ट्राणि कीर्तयिष्यामि कानिचित् | 008a
रमणीयानि गुप्तानि तेषां किञ्चित्स्म रोचय || 008c
सन्ति रम्या जनपदा बह्वन्नाः परितः कुरून् | 009a
पाञ्चालाश्चेदिमत्स्याश्च शूरसेनाः पटच्चराः| 009c
दशार्णा नवराष्ट्रं च मल्लाः शाल्वा युगन्धराः || 009e
एतेषां कतमो राजन्निवासस्तव रोचते | 010a
वत्स्यामो यत्र राजेन्द्र संवत्सरमिमं वयम् | 010c
युधिष्ठिर उवाच || 011
एवमेतन्महाबाहो यथा स भगवान्प्रभुः | 011a
अब्रवीत्सर्वभूतेशस्तत्तथा न तदन्यथा || 011c
अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम् | 012a
सम्मन्त्र्य सहितैः सर्वैर्द्रष्टव्यमकुतोभयम् || 012c
मत्स्यो विराटो बलवानभिरक्षेत्स पाण्डवान् | 013a
धर्मशीलो वदान्यश्च वृद्धश्च सुमहाधनः || 013c
विराटनगरे तात संवत्सरमिमं वयम् | 014a
कुर्वन्तस्तस्य कर्माणि विहरिष्याम भारत || 014c
यानि यानि च कर्माणि तस्य शक्ष्यामहे वयम् | 015a
कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दनाः || 015c
अर्जुन उवाच || 016
नरदेव कथं कर्म राष्ट्रे तस्य करिष्यसि | 016a
विराटनृपतेः साधो रंस्यसे केन कर्मणा || 016c
मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः | 017a
राजंस्त्वमापदा क्लिष्टः किं करिष्यसि पाण्डव || 017c
न दुःखमुचितं किञ्चिद्राजन्वेद यथा जनः | 018a
स इमामापदं प्राप्य कथं घोरां तरिष्यसि || 018c
युधिष्ठिर उवाच || 019
शृणुध्वं यत्करिष्यामि कर्म वै कुरुनन्दनाः | 019a
विराटमनुसम्प्राप्य राजानं पुरुषर्षभम् || 019c
सभास्तारो भविष्यामि तस्य राज्ञो महात्मनः | 020a
कङ्को नाम द्विजो भूत्वा मताक्षः प्रियदेविता || 020c
वैडूर्यान्काञ्चनान्दान्तान्फलैर्ज्योतीरसैः सह | 021a
कृष्णाक्षाल्ँलोहिताक्षांश्च निर्वर्त्स्यामि मनोरमान् || 021c
आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा | 022a
इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते || 022c
इत्येतद्वो मयाख्यातं विहरिष्याम्यहं यथा | 023a
वृकोदर विराटे त्वं रंस्यसे केन कर्मणा || 023c