वैशम्पायन उवाच 001
धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः 001a
अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम् 001c
उपोपविश्य विद्वांसः सहिताः संशितव्रताः 001e
ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः 002a
तानब्रुवन्महात्मानः शिष्टाः प्राञ्जलयस्तदा 002c
अभ्यनुज्ञापयिष्यन्तस्तं निवासं धृतव्रताः 002e
विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम् 003a
छद्मना हृतराज्याश्च निःस्वाश्च बहुशः कृताः 003c
उषिताश्च वने कृच्छ्रं यत्र द्वादश वत्सरान् 004a
अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् 004c
तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ 004e
सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः 005a
जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः 005c
युक्ताचाराश्च युक्ताश्च पौरस्य स्वजनस्य च 005e
अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह 006a
समस्ताः स्वेषु राष्ट्रेषु स्वराज्यस्था भवेमहि 006c
इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा 007a
सम्मूर्छितोऽभवद्राजा साश्रुकण्ठो युधिष्ठिरः 007c
तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह 008a
अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा 008c
राजन्विद्वान्भवान्दान्तः सत्यसन्धो जितेन्द्रियः 009a
नैवंविधाः प्रमुह्यन्ति नराः कस्याञ्चिदापदि 009c
देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुशस्तथा 010a
तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः 010c
इन्द्रेण निषधान्प्राप्य गिरिप्रस्थाश्रमे तदा 011a
छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे 011c
विष्णुनाश्वशिरः प्राप्य तथादित्यां निवत्स्यता 012a
गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम् 012c
प्राप्य वामनरूपेण प्रच्छन्नं ब्रह्मरूपिणा 013a
बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् 013c
और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा 014a
यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया 014c
प्रच्छन्नं चापि धर्मज्ञ हरिणा वृत्रनिग्रहे 015a
वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम् 015c
हुताशनेन यच्चापः प्रविश्य छन्नमासता 016a
विबुधानां कृतं कर्म तच्च सर्वं श्रुतं त्वया 016c
एवं विवस्वता तात छन्नेनोत्तमतेजसा 017a
निर्दग्धाः शत्रवः सर्वे वसता भुवि सर्वशः 017c
विष्णुना वसता चापि गृहे दशरथस्य वै 018a
दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा 018c
एवमेते महात्मानः प्रच्छन्नास्तत्र तत्र ह 019a
अजयञ्शात्रवान्युद्धे तथा त्वमपि जेष्यसि 019c
तथा धौम्येन धर्मज्ञो वाक्यैः सम्परितोषितः 020a
शास्त्रबुद्ध्या स्वबुद्ध्या च न चचाल युधिष्ठिरः 020c
अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः 021a
राजानं बलिनां श्रेष्ठो गिरा सम्परिहर्षयन् 021c
अवेक्षया महाराज तव गाण्डीवधन्वना 022a
धर्मानुगतया बुद्ध्या न किञ्चित्साहसं कृतम् 022c
सहदेवो मया नित्यं नकुलश्च निवारितौ 023a
शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ 023c
न वयं तत्प्रहास्यामो यस्मिन्योक्ष्यति नो भवान् 024a
भवान्विधत्तां तत्सर्वं क्षिप्रं जेष्यामहे परान् 024c
इत्युक्ते भीमसेनेन ब्राह्मणाः परमाशिषः 025a
प्रयुज्यापृच्छ्य भरतान्यथास्वान्स्वान्ययुर्गृहान् 025c
सर्वे वेदविदो मुख्या यतयो मुनयस्तथा 026a
आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः 026c
सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः 027a
उत्थाय प्रययुर्वीराः कृष्णामादाय भारत 027c
क्रोशमात्रमतिक्रम्य तस्माद्देशान्निमित्ततः 028a
श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः 028c
पृथक्शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः 029a
सन्धिविग्रहकालज्ञा मन्त्राय समुपाविशन् 029c