वैशम्पायन उवाच 001
ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः 001a
क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम् 001c
युधिष्ठिर उवाच 002
सरस्येकेन पादेन तिष्ठन्तमपराजितम् 002a
पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् 002c
वसूनां वा भवानेको रुद्राणामथ वा भवान् 003a
अथ वा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः 003c
मम हि भ्रातर इमे सहस्रशतयोधिनः 004a
न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः 004c
सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये 005a
स भवान्सुहृदस्माकमथ वा नः पिता भवान् 005c
यक्ष उवाच 006
अहं ते जनकस्तात धर्मो मृदुपराक्रम 006a
त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ 006c
यशः सत्यं दमः शौचमार्जवं ह्रीरचापलम् 007a
दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम 007c
अहिंसा समता शान्तिस्तपः शौचममत्सरः 008a
द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम 008c
दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता 009a
द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते साम्परायिके 009c
धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वामिहागतः 010a
आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ 010c
वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ 011a
ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः 011c
युधिष्ठिर उवाच 012
अरणीसहितं यस्य मृग आदाय गच्छति 012a
तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम 012c
धर्म उवाच 013
अरणीसहितं तस्य ब्राह्मणस्य हृतं मया 013a
मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो 013c
वैशम्पायन उवाच 014
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत 014a
अन्यं वरय भद्रं ते वरं त्वममरोपम 014c
युधिष्ठिर उवाच 015
वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् 015a
तत्र नो नाभिजानीयुर्वसतो मनुजाः क्वचित् 015c
वैशम्पायन उवाच 016
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत 016a
भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम् 016c
यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् 017a
न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत 017c
वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूद्वहाः 018a
विराटनगरे गूढा अविज्ञाताश्चरिष्यथ 018c
यद्वः सङ्कल्पितं रूपं मनसा यस्य यादृशम् 019a
तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ 019c
अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत 020a
जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा 020c
तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत् 021a
त्वं हि मत्प्रभवो राजन्विदुरश्च ममांशभाक् 021c
युधिष्ठिर उवाच 022
देवदेवो मया दृष्टो भवान्साक्षात्सनातनः 022a
यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः 022c
जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो 023a
दाने तपसि सत्ये च मनो मे सततं भवेत् 023c
धर्म उवाच 024
उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव 024a
भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति 024c
वैशम्पायन उवाच 025
इत्युक्त्वान्तर्दधे धर्मो भगवाल्ँलोकभावनः 025a
समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः 025c
अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः 026a
आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने 026c
इदं समुत्थानसमागमं महत्पितुश्च पुत्रस्य च कीर्तिवर्धनम् 027a
पठन्नरः स्याद्विजितेन्द्रियो वशी सपुत्रपौत्रः शतवर्षभाग्भवेत् 027c
न चाप्यधर्मे न सुहृद्विभेदने परस्वहारे परदारमर्शने 028a
कदर्यभावे न रमेन्मनः सदा नृणां सदाख्यानमिदं विजानताम् 028c