वैशम्पायन उवाच 001
स ददर्श हतान्भ्रातॄल्ँलोकपालानिव च्युतान् 001a
युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान् 001c
विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् 002a
भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुषः 002c
स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः 003a
बुद्ध्या विचिन्तयामास वीराः केन निपातिताः 003c
नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित् 004a
भूतं महदिदं मन्ये भ्रातरो येन मे हताः 004c
एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् 004e
स्यात्तु दुर्योधनेनेदमुपांशुविहितं कृतम् 005a
गान्धारराजरचितं सततं जिह्मबुद्धिना 005c
यस्य कार्यमकार्यं वा सममेव भवत्युत 006a
कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः 006c
अथ वा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः 007a
भवेदिति महाबाहुर्बहुधा समचिन्तयत् 007c
तस्यासीन्न विषेणेदमुदकं दूषितं यथा 008a
मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत् 008c
एकैकशश्चौघबलानिमान्पुरुषसत्तमान् 009a
कोऽन्यः प्रतिसमासेत कालान्तकयमादृते 009c
एतेनाध्यवसायेन तत्तोयमवगाढवान् 010a
गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे 010c
यक्ष उवाच 011
अहं बकः शैवलमत्स्यभक्षो मया नीताः प्रेतवशं तवानुजाः 011a
त्वं पञ्चमो भविता राजपुत्र न चेत्प्रश्नान्पृच्छतो व्याकरोषि 011c
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः 012a
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च 012c
युधिष्ठिर उवाच 013
रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् 013a
पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् 013c
हिमवान्पारियात्रश्च विन्ध्यो मलय एव च 014a
चत्वारः पर्वताः केन पातिता भुवि तेजसा 014c
अतीव ते महत्कर्म कृतं बलवतां वर 015a
यन्न देवा न गन्धर्वा नासुरा न च राक्षसाः 015c
विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् 015e
न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् 016a
कौतूहलं महज्जातं साध्वसं चागतं मम 016c
येनास्म्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः 017a
पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति 017c
यक्ष उवाच 018
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः 018a
मयैते निहताः सर्वे भ्रातरस्ते महौजसः 018c
वैशम्पायन उवाच 019
ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् 019a
यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः 019c
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् 020a
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् 020c
सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः 021a
मेघगम्भीरया वाचा तर्जयन्तं महाबलम् 021c
यक्ष उवाच 022
इमे ते भ्रातरो राजन्वार्यमाणा मयासकृत् 022a
बलात्तोयं जिहीर्षन्तस्ततो वै सूदिता मया 022c
न पेयमुदकं राजन्प्राणानिह परीप्सता 023a
पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः 023c
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च 023e
युधिष्ठिर उवाच 024
नैवाहं कामये यक्ष तव पूर्वपरिग्रहम् 024a
कामं नैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा 024c
यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो 025a
यथाप्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् 025c
यक्ष उवाच 026
किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः 026a
कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति 026c
युधिष्ठिर उवाच 027
ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः 027a
धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति 027c
यक्ष उवाच 028
केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत् 028a
केन द्वितीयवान्भवति राजन्केन च बुद्धिमान् 028c
युधिष्ठिर उवाच 029
श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् 029a
धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया 029c
यक्ष उवाच 030
किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव 030a
कश्चैषां मानुषो भावः किमेषामसतामिव 030c
युधिष्ठिर उवाच 031
स्वाध्याय एषां देवत्वं तप एषां सतामिव 031a
मरणं मानुषो भावः परिवादोऽसतामिव 031c
यक्ष उवाच 032
किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव 032a
कश्चैषां मानुषो भावः किमेषामसतामिव 032c
युधिष्ठिर उवाच 033
इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव 033a
भयं वै मानुषो भावः परित्यागोऽसतामिव 033c
यक्ष उवाच 034
किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः 034a
का चैका वृश्चते यज्ञं कां यज्ञो नातिवर्तते 034c
युधिष्ठिर उवाच 035
प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः 035a
वागेका वृश्चते यज्ञं तां यज्ञो नातिवर्तते 035c
यक्ष उवाच 036
किं स्विदापततां श्रेष्ठं किं स्विन्निपततां वरम् 036a
किं स्वित्प्रतिष्ठमानानां किं स्वित्प्रवदतां वरम् 036c
युधिष्ठिर उवाच 037
वर्षमापततां श्रेष्ठं बीजं निपततां वरम् 037a
गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः 037c
यक्ष उवाच 038
इन्द्रियार्थाननुभवन्बुद्धिमाल्ँलोकपूजितः 038a
सम्मतः सर्वभूतानामुच्छ्वसन्को न जीवति 038c
युधिष्ठिर उवाच 039
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः 039a
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति 039c
यक्ष उवाच 040
किं स्विद्गुरुतरं भूमेः किं स्विदुच्चतरं च खात् 040a
किं स्विच्छीघ्रतरं वायोः किं स्विद्बहुतरं नृणाम् 040c
युधिष्ठिर उवाच 041
माता गुरुतरा भूमेः पिता उच्चतरश्च खात् 041a
मनः शीघ्रतरं वायोश्चिन्ता बहुतरी नृणाम् 041c
यक्ष उवाच 042
किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति 042a
कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते 042c
युधिष्ठिर उवाच 043
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति 043a
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते 043c
यक्ष उवाच 044
किं स्वित्प्रवसतो मित्रं किं स्विन्मित्रं गृहे सतः 044a
आतुरस्य च किं मित्रं किं स्विन्मित्रं मरिष्यतः 044c
युधिष्ठिर उवाच 045
सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः 045a
आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः 045c
यक्ष उवाच 046
किं स्विदेको विचरति जातः को जायते पुनः 046a
किं स्विद्धिमस्य भैषज्यं किं स्विदावपनं महत् 046c
युधिष्ठिर उवाच 047
सूर्य एको विचरति चन्द्रमा जायते पुनः 047a
अग्निर्हिमस्य भैषज्यं भूमिरावपनं महत् 047c
यक्ष उवाच 048
किं स्विदेकपदं धर्म्यं किं स्विदेकपदं यशः 048a
किं स्विदेकपदं स्वर्ग्यं किं स्विदेकपदं सुखम् 048c
युधिष्ठिर उवाच 049
दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः 049a
सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् 049c
यक्ष उवाच 050
किं स्विदात्मा मनुष्यस्य किं स्विद्दैवकृतः सखा 050a
उपजीवनं किं स्विदस्य किं स्विदस्य परायणम् 050c
युधिष्ठिर उवाच 051
पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा 051a
उपजीवनं च पर्जन्यो दानमस्य परायणम् 051c
यक्ष उवाच 052
धन्यानामुत्तमं किं स्विद्धनानां किं स्विदुत्तमम् 052a
लाभानामुत्तमं किं स्वित्किं सुखानां तथोत्तमम् 052c
युधिष्ठिर उवाच 053
धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् 053a
लाभानां श्रेष्ठमारोग्यं सुखानां तुष्टिरुत्तमा 053c
यक्ष उवाच 054
कश्च धर्मः परो लोके कश्च धर्मः सदाफलः 054a
किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते 054c
युधिष्ठिर उवाच 055
आनृशंस्यं परो धर्मस्त्रयीधर्मः सदाफलः 055a
मनो यम्य न शोचन्ति सद्भिः सन्धिर्न जीर्यते 055c
यक्ष उवाच 056
किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति 056a
किं नु हित्वार्थवान्भवति किं नु हित्वा सुखी भवेत् 056c
युधिष्ठिर उवाच 057
मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति 057a
कामं हित्वार्थवान्भवति लोभं हित्वा सुखी भवेत् 057c
यक्ष उवाच 058
मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् 058a
श्राद्धं मृतं कथं च स्यात्कथं यज्ञो मृतो भवेत् 058c
युधिष्ठिर उवाच 059
मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् 059a
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः 059c
यक्ष उवाच 060
का दिक्किमुदकं प्रोक्तं किमन्नं पार्थ किं विषम् 060a
श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च 060c
युधिष्ठिर उवाच 061
सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् 061a
श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे 061c
यक्ष उवाच 062
व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप 062a
पुरुषं त्विदानीमाख्याहि यश्च सर्वधनी नरः 062c
युधिष्ठिर उवाच 063
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः 063a
यावत्स शब्दो भवति तावत्पुरुष उच्यते 063c
तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च 064a
अतीतानागते चोभे स वै सर्वधनी नरः 064c
यक्ष उवाच 065
व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः 065a
तस्मात्तवैको भ्रातॄणां यमिच्छसि स जीवतु 065c
युधिष्ठिर उवाच 066
श्यामो य एष रक्ताक्षो बृहच्छाल इवोद्गतः 066a
व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु 066c
यक्ष उवाच 067
प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् 067a
स कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि 067c
यस्य नागसहस्रेण दशसङ्ख्येन वै बलम् 068a
तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि 068c
तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव 069a
अथ केनानुभावेन सापत्नं जीवमिच्छसि 069c
यस्य बाहुबलं सर्वे पाण्डवाः समुपाश्रिताः 070a
अर्जुनं तमपाहाय नकुलं जीवमिच्छसि 070c
युधिष्ठिर उवाच 071
आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम् 071a
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु 071c
धर्मशीलः सदा राजा इति मां मानवा विदुः 072a
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु 072c
यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः 073a
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु 073c
यक्ष उवाच 074
यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् 074a
तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ 074c