युधिष्ठिर उवाच 001
नापदामस्ति मर्यादा न निमित्तं न कारणम् 001a
धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः 001c
भीम उवाच 002
प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा 002a
न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम् 002c
अर्जुन उवाच 003
वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः 003a
अतितीक्ष्णा मया क्षान्तास्तेन प्राप्ताः स्म संशयम् 003c
सहदेव उवाच 004
शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत 004a
स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम् 004c
वैशम्पायन उवाच 005
ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् 005a
आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश 005c
पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान् 006a
इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः 006c
नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादपम् 007a
अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः 007c
पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान् 008a
सारसानां च निर्ह्रादमत्रोदकमसंशयम् 008c
ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः 009a
गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय 009c
नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् 010a
प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत 010c
स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् 011a
पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे 011c
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः 012a
प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च 012c
अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः 013a
अपिबच्छीतलं तोयं पीत्वा च निपपात ह 013c
चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः 014a
अब्रवीद्भ्रातरं वीरं सहदेवमरिन्दमम् 014c
भ्राता चिरायते तात सहदेव तवाग्रजः 015a
तं चैवानय सोदर्यं पानीयं च त्वमानय 015c
सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत 016a
ददर्श च हतं भूमौ भ्रातरं नकुलं तदा 016c
भ्रातृशोकाभिसन्तप्तस्तृषया च प्रपीडितः 017a
अभिदुद्राव पानीयं ततो वागभ्यभाषत 017c
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः 018a
प्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च 018c
अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः 019a
अपिबच्छीतलं तोयं पीत्वा च निपपात ह 019c
अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः 020a
भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन 020c
तौ चैवानय भद्रं ते पानीयं च त्वमानय 020e
एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः 021a
आमुक्तखड्गो मेधावी तत्सरः प्रत्यपद्यत 021c
यतः पुरुषशार्दूलौ पानीयहरणे गतौ 022a
तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः 022c
प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः 023a
धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् 023c
नापश्यत्तत्र किञ्चित्स भूतं तस्मिन्महावने 024a
सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत 024c
अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे 025a
किमासीदसि पानीयं नैतच्छक्यं बलात्त्वया 025c
कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिपत्स्यसे 026a
ततः पास्यसि पानीयं हरिष्यसि च भारत 026c
वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय 027a
यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि 027c
एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः 028a
ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन् 028c
कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ 029a
अनेकैरिषुसङ्घातैरन्तरिक्षं ववर्ष ह 029c
यक्ष उवाच 030
किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब 030a
अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि 030c
वैशम्पायन उवाच 031
स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितः 031a
अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह 031c
अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः 032a
नकुलः सहदेवश्च बीभत्सुश्चापराजितः 032c
चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत 033a
तांश्चैवानय भद्रं ते पानीयं च त्वमानय 033c
भीमसेनस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत 034a
यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः 034c
तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः 035a
अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् 035c
स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे 035e
पास्यामि तावत्पानीयमिति पार्थो वृकोदरः 036a
ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः 036c
यक्ष उवाच 037
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः 037a
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च 037c
वैशम्पायन उवाच 038
एवमुक्तस्ततो भीमो यक्षेणामिततेजसा 038a
अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह 038c
ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः 039a
समुत्थाय महाबाहुर्दह्यमानेन चेतसा 039c
अपेतजननिर्घोषं प्रविवेश महावनम् 040a
रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् 040c
नीलभास्वरवर्णैश्च पादपैरुपशोभितम् 041a
भ्रमरैरुपगीतं च पक्षिभिश्च महायशाः 041c
स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् 042a
ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा 042c
उपेतं नलिनीजालैः सिन्धुवारैश्च वेतसैः 043a
केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् 043c
श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः 043e