जनमेजय उवाच 001
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् 001a
प्रतिलभ्य ततः कृष्णां किमकुर्वत पाण्डवाः 001c
वैशम्पायन उवाच 002
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् 002a
विहाय काम्यकं राजा सह भ्रातृभिरच्युतः 002c
पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः 003a
स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति 003c
अनुगुप्तफलाहाराः सर्व एव मिताशनाः 004a
न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत 004c
वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः 005a
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ 005c
ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः 006a
क्लेशमार्छन्त विपुलं सुखोदर्कं परन्तपाः 006c
अजातशत्रुमासीनं भ्रातृभिः सहितं वने 007a
आगम्य ब्राह्मणस्तूर्णं सन्तप्त इदमब्रवीत् 007c
अरणीसहितं मह्यं समासक्तं वनस्पतौ 008a
मृगस्य घर्षमाणस्य विषाणे समसज्जत 008c
तदादाय गतो राजंस्त्वरमाणो महामृगः 009a
आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः 009c
तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम् 010a
अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः 010c
ब्राह्मणस्य वचः श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः 011a
धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह 011c
सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः 012a
ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् 012c
कर्णिनालीकनाराचानुत्सृजन्तो महारथाः 013a
नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् 013c
तेषां प्रयतमानानां नादृश्यत महामृगः 014a
अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः 014c
शीतलच्छायमासाद्य न्यग्रोधं गहने वने 015a
क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् 015c
तेषां समुपविष्टानां नकुलो दुःखितस्तदा 016a
अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम 016c
नास्मिन्कुले जातु ममज्ज धर्मो न चालस्यादर्थलोपो बभूव 017a
अनुत्तराः सर्वभूतेषु भूयः सम्प्राप्ताः स्मः संशयं केन राजन् 017c